________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिकर्मव्यवहारः
अत्रोद्देशकः ।
नव वदनं तवपदं भावाधिकशतधनं कियान्प्रचयः । पञ्च चयोऽष्ट पदं षट्पञ्चाशच्छतधनं मुखं कथय ७७ ॥
स्वेष्टाद्युत्तरगच्छानयनसूत्रम् --
सङ्कलिते स्वेष्टहृते हारो गच्छोऽत्र लब्ध इष्टोने । ऊनितमादिश्शेषे व्येकपदार्थोद्धृते प्रचयः ॥ ७८ ॥ अत्रोद्देशकः ।
चत्वारिंशत्सहिता पञ्चशती गणितमत्र सन्दृष्टम् । गच्छप्रचयप्रभवान् 'गणितज्ञशिरोमणे कथय ॥ ७९ ॥
आद्युत्तरगच्छसर्वमिश्रधनविश्लेषणे सूत्रत्रयम् - उत्तरधनेन रहितं गच्छनैकेन संयुतेन हृतम् । मिश्रधनं प्रभवस्स्यादिति गणकशिरोमणे विद्धि ॥ ८० ॥ आदिधनोनं मिश्रं 'रूपोनपदार्धगुणितगच्छेन । सैकेन हृत प्रचयो गच्छविधानात्पदं मुखे सैके ॥ ८१ ॥ मिश्रादपनीतेष्टौ मुखगच्छौ प्रचयमिश्रविधिलब्धः । यो राशिस्त चयस्स्यात्करणमिदं सर्वसंयोगे ॥ ८२ ॥ अत्रोद्देशकः ।
द्वित्रिकपश्चदशाग्रा चत्वारिंशन्मुखादिमिश्रधनम् । तत्र प्रभवं प्रचयं गच्छं सर्वं च मे ब्रूहि ॥ ८३ ॥
M विगणय्य सखे ममाचक्ष्व.
2 M
Acharya Shri Kailassagarsuri Gyanmandir
पदोनपद कृतिदलेन सैकेन ।
भक्तं प्रच्चयोऽत्र पदं गच्छविधानान्मुखे सैके ॥
For Private and Personal Use Only
19