________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18
गणितसारसङ्ग्रहः गच्छानयनसूत्रम्
अष्टोत्तरगुणराशेर्द्विगुणाद्युत्तरविशेषकृतिसहितात् । मूलं चययुतमर्पितमायूनं चयहृतं गच्छः ॥ ६९ ॥ प्रकारान्तरेण गच्छानयनसूत्रम्अष्टोत्तरगुणराशेर्डिगुणाद्युत्तरविशेषकतिसाहितात् । मूलं क्षेपपदोनं दलितं चयभाजितं गच्छः ॥ ७० ॥
अत्रोद्देशकः ॥ आदिौं प्रचयोऽष्टौ द्वौ रूपेणा त्रयात्क्रमाबद्धौ । रवाङ्कौ रसाद्रिनेत्रं रखेन्दुहरा वित्तमत्र को गच्छः ॥ ७१ ॥ आदिः पञ्च चयोऽष्टौ गुणरत्नाग्निधनमत्र को गच्छः । षट् प्रभवश्व चयोऽष्टौ वद्विचतुरस्वं पदं किं स्यात् ॥ ७२ ॥
उत्तराद्यानयनसुत्रम्--
आदिधनोनं गणितं पदोनपदकृतिदलेन सम्भजितम् । प्रचयस्तद्धनहीनं गणितं पदभाजितं प्रभवः ॥ ७३ ॥ आयुत्तरानयनसूत्रम्प्रभवो गच्छाप्तधनं विगतैकपदार्धगुणितचयहीनम् । पदहतधनमायूनं निरेकपददलहृतं प्रचयः ॥ ७४ ॥ प्रकारान्तरेणोत्तराद्यानयनसूत्रद्वयम् -- द्विहतं सङ्कलितधनं गच्छहृतं द्विगुणितादिना रहितम् । विगतैकपदविभक्तं प्रचयस्स्यादिति विजानीहि ॥ ७५ ॥ द्विगुणितसङ्कलितधनं गच्छहृतं रूपरहितगच्छेन । ताडितचयेन रहितं द्वयेन सम्भाजितं प्रभवः ॥ ७६ ॥
For Private and Personal Use Only