________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिकर्मव्यवहारः
सङ्कलितम् ।
सप्तमे सङ्कलित परिकर्मणि करणसूत्रं यथा
रूपेणोनो गच्छो दलीकृतः प्रचयताडितो मिश्रः । प्रभवेण पदाभ्यस्तस्सङ्कलितं भवति सर्वेषाम् ॥ ६१ ॥
---
प्रकारान्तरेण धनानयनसूत्रम्एकविहीनो गच्छ: प्रचयगुणो द्विगुणितादिसंयुक्तः । गच्छाम्यस्तो द्विहृतः प्रभवेत्सर्वत्र सङ्कलितम् ॥ ६२ ॥ आद्युत्तर सर्वधनानयनसूत्रम् - पदहतमुरखमादिधनं व्येकपदार्थ प्रचयगुणो गच्छः । उत्तरधनं 'तयोर्योगो धनमूनोत्तरं मुखेऽन्त्यधने ॥ ६३ ॥ अन्त्यधनमध्यधनसर्वधनानयनसूत्रम् --
"चयगुणितैकोनपदं साद्यन्त्यधनं तदादियोगार्धम् । मध्यधनं तत्पदवधमुद्दिष्टं सर्वसङ्कलितम् ॥ ६४ ॥ अत्रोद्देशकः ।
This stanza is omitted in M.
3
Acharya Shri Kailassagarsuri Gyanmandir
एकादिदशान्ताद्यास्तावत्प्रचयास्समर्चयन्ति धनम् । वणिजो दश दश गच्छास्तेषां सङ्कलितमाकलय ॥ ६५ ॥ द्विमुखत्रिचयैर्मणिभिः प्रानर्च श्रावकोत्तमः कश्चित् । पञ्चवसतीरमीषां का सङ्ख्या बूहि गणितज्ञ ॥ ६६ ॥ आदिस्त्रयश्वोऽष्टौ द्वादश गच्छस्त्रयोऽपि रूपेण । आ सप्तकात्प्रवृद्धास्सर्वेषां गणक भण गणितम् ॥ ६७ ॥ द्विकृतिर्मुखं चयोऽष्टौ नगरसहस्त्रे समचितं गणितम् । गणिताब्धिसमुत्तरणे बाहुबलिन् त्वं समाचक्ष्व ॥ ६८ ॥
M तदूना सैक (व ?) पदाप्ता युति: प्रभवः ।
M बली.
For Private and Personal Use Only
17