________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
14
गणितसारसङ्ग्रहः
अत्रोद्देशकः । एकादिनवान्तानां वर्गगतानां वदाशु मे मूलम् । अतुविषयलोचनानां द्रव्यमहीधेन्द्रियाणाञ्च ।। ३७ ॥ एकाग्रषष्टिसमधिक पञ्चशतोपेतषट्सहस्राणाम् । षड़गेंपञ्चपञ्चकषण्णामपि मूलमाकलय ॥ ३८ ॥ द्रव्यपदार्थनयाचललेख्यालब्ध्यब्धि निधिनयाब्धीनाम् ।
शशिनेत्रेन्द्रिययुगनयजीवानाञ्चापि किं मूलम् ॥ ३९ ॥ चन्द्राब्धिगतिकषायद्रव्यर्तहुताशनतराशीनाम् ।। विधुलेख्येन्द्रियहिमकरमुनिगिरिशशिनां च मूलं किम् ॥ ४० ॥ द्वादशशतस्य मूलं षण्णवतियतस्य कथय सश्चिन्त्य । शतषट्कस्यापि सरवे पञ्चकवर्गेण युक्तस्य ।। ४१ ॥
अङ्केभकर्माम्बरशङ्कराणां सोमाक्षिवैश्वानरभास्कराणाम् । चन्द्रर्तुबाणाब्धिगतिद्विपानामाचक्ष्व
मूलं गणकाग्रणीस्त्वम् ॥ ४२॥ इति परिकर्मविधौ चतुर्थं वर्गमूलं समाप्तम् ।।
घन : । पश्चमे घनपरिकमणि करणसूत्रं यथा --- त्रिसमाहतिर्घनस्स्यादिष्टोनयुतान्यराशिघातो वा । अल्पगुणितष्टकृत्या कलितो बृन्देन चेष्टस्य ।। ४३ ॥ इष्टादिद्विगुणेष्टप्रचयेष्टपदान्वयोऽथ वेष्टकृतिः । व्येकेष्टहतैकादिद्विचयेष्टपदै ययुक्ता वा ॥ ४४ ।। “एकादिचयेष्टपदे पूर्व राशि परेण सङ्गणयेत् । गुणितसमासस्त्रिगुणश्चरमेण युतो घनो भवति ॥ ४५ ॥ | P and M वर्गगतानां शीघ्रं रूपादिनवावसानराशीनाम् । मूलं कथय सखे त्वं.
M नव.
3 'This stanza is not found in P.
For Private and Personal Use Only