________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छायाव्यवहारः.
166
स्तम्भप्रमाणं च भिच्यारूढस्तम्भच्छायासङ्ख्यां च ज्ञात्वा भित्तिस्तम्भान्तरसङ्ख्यानयनसूत्रम्
पुरुषच्छायानिघ्नं स्तम्भारूढान्तरं तयोर्मध्यम् । स्तम्भारूढान्तरहृततदन्तरं पौरुषी त्राया ॥ २३ ॥
अत्रोद्देशकः । विशतिहस्तः स्तम्भः षोडश भित्त्याश्रितच्छाया। द्विगुणा पुरुषच्छाया भित्तिस्तम्भान्तरं किं स्यात् ॥ २४ ॥
अपरार्धस्योदाहरणम् । विंशतिहसः स्तम्भः षोडश मित्याश्रितच्छाया ।
कियती पुरुषच्छाया भित्तिस्तम्भान्तरं चाष्टौ ।। २५॥ आरूढच्छायायाः सङ्ख्यां च भित्तिस्तम्भान्तरभूमिसयां च पुरुषच्छायायाः सङ्ख्यां च ज्ञात्वा स्तम्भप्रमाणसङ्ख्यानयनसूत्रम्--
नृच्छायानारूढा भित्तिस्तम्भान्तरेण संयुक्ता। पौरुषभाहृतलब्धं विदुः प्रमाण बुधाः स्तम्भे ॥ २६ ॥
अत्रोद्देशकः। षोडश भिच्यारूढच्छाया द्विगुणैव पौरुषी छाया।
स्तम्भोत्सेधः कः स्याद्भित्तिस्तम्भान्तरं चाष्टौ ॥ २७ ।। शङ्कप्रमाणशङ्कच्छायामिश्रविभक्तसूत्रम्
शङ्कप्रमाणशङ्कच्छायामिश्रं तु सैकपौरुष्या। भक्तं शङ्कमितिः स्याच्छङ्कुच्छाया तदूनमिश्रं हि ॥ २८ ॥
अत्रोद्देशकः। शङ्कुप्रमाणशङ्कुच्छायामिश्रं तु पञ्चाशत् । शङ्कत्सेधः कः स्याञ्चतुर्गुणा पौरुषी छाया ॥ २९ ।।
For Private and Personal Use Only