________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
150
गणितसारसङ्ग्रहः. प्राकारमध्यप्रदेशोत्सेधे तरवृद्धचानयनस्य प्राकारस्य उभयपार्श्वयोः तरहानेरानयनस्य च सूत्रम्
इष्टेष्टकोदयहृतो वेधश्च तरप्रमाणमे कोनम् । मुखतलशेषेण हृतं फलमेव हि भवति तरहानिः ॥ ५७ ॥
अत्रोद्देशकः । प्राकारस्य व्यासः सप्त तले विंशतिस्तदुत्सेधः ।। एकेनाने घटितस्तरबृद्धयूने करोदयेष्टकया ।। ५८६ ॥ समवृत्तायां वाप्यां व्यासचतुष्केऽर्धयुक्तकरभूमिः । घटितेष्टकाभिरभितस्तस्यां वेधस्त्रयः काः स्युः । घटितेष्टकाः सरखे मे विगणय्य ब्रहि यदि वेत्सि ॥ ६ ॥ इष्टकाघटितस्थले अधस्सलव्यासे सति ऊर्ध्वतलव्यासे सति च गणितन्यायसूत्रम्
द्विगुणनिवेशो व्यासायामयुतो द्विगुणितस्तदायामः । आयतचतुर श्रे स्यादुत्सेधव्याससङ्गणितः ॥ ६१ ॥
अत्रोद्देशकः । विद्याधरनगरस्य व्यासोऽष्टौ द्वादशैव चायामः ।
पञ्च प्राकारतले मुरवे तदेकं दशोत्सेधः ॥ ६२ ।। इति रवातव्यवहारे चितिगणितं समाप्तम् ।
क्रकचिकाव्यवहारः. इतः परं क्रकचिकाव्यवहारमुदाहरिष्यामः । तत्र परिभाषाहस्तद्वयं षडङ्गलहीनं किष्क्वाह्वयं भवति । इष्टाद्यन्तच्छेदनसङ्ख्यैव हि मार्गसंज्ञा स्यात् ।। ६३ ॥ अथ शाकाख्ययादिद्रुमसमुदायेषु वक्ष्यमाणेषु । व्यासोदयमार्गाणामङ्गुलसंख्या परस्परन्नाप्ता ॥ १४ ॥
For Private and Personal Use Only