________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खातव्यवहारः.
147
वापीप्रणालिकानां विमोचने तत्तदिष्टप्रणालिकासंयोगे तज्जलेन वाप्यां पूर्णायां सत्यां तत्तत्कालानयनसूत्रम् ---
वापीप्रणालिकाः स्वस्वकालभक्ताः सवर्णविच्छेदाः । तद्युतिभक्तं रूपं दिनांशकः स्यात्प्रणालिकायुत्या ॥ तदिनभागहतास्ते तज्जलगतयो भवन्ति तद्वाप्याम् ॥ ३३ ॥
अत्रोद्देशकः । चतस्त्रः प्रणालिकाः स्युस्तत्रैकैका प्रपूरयति वापीम् । द्वित्रिचतुःपञ्चांशेर्दिनस्य कतिभिर्दिनांशैस्ताः ॥ ३४ ॥
त्रैराशिकाख्यचतुर्थगणितव्यवहारे सूचनामात्रोदाहरणमेव ; अत्र सम्यग्विस्तार्य प्रवक्ष्यते -
समचतुरश्रा वापी नवहस्तधना नगस्य तले । तच्छिरवराजलधारा चतुरश्राङ्गुलसमानविष्कम्भा ॥३५॥ पतिताग्रे विच्छिन्ना तया घना सान्तरालजलपूर्णा । शैलोत्सेधं वाप्यां जलप्रमाणं च मे ब्रूहि ॥ ३१ ॥ वापी समचतुरश्रा नवहस्तघना नगस्य तले । अङ्गलसमवृत्तघना जलधारा निपतिता च तच्छिखरात् ॥ ३७॥ अग्रे विच्छिन्नाभूत्तस्या वाप्या मुखं प्रविष्टा हि । सा पूर्णान्तरगतजलधारोत्सेधेन शैलस्य । उत्सेधं कथय सरवे जलप्रमाणं च विगणय्य ॥ ३८ ॥ समचतुरश्रा वापी नवहतघना नगस्य तले। तच्छिखराज्जलधारा पतिताङ्गुलवनत्रिकोणा सा ॥ ३९ ॥ वापीमुरवप्रविष्ठा साग्रे छिन्नान्तरालजलपूर्णा । कथय सरवे विगणय्य च गिर्युत्सेधं जलप्रमाणं च ॥ ४० ॥
For Private and Personal Use Only