________________
Shri Mahavir Jain Aradhana Kendra
146
www.kobatirth.org
गणितसारसङ्ग्रहः.
सूत्रम् -
समचतुरश्राष्टादशहस्तभुजा वापिका चतुर्वेधा | वापी तज्जलपूर्णान्या नवबाहात्र को वेधः ॥ २५३ ॥
यस्य कस्यचित्खातस्य ऊर्ध्वस्थितभुजासङ्ख्यां च अधस्स्थित - भुजासङ्ख्यां च उत्सेधप्रमाणं च ज्ञात्वा, तत्खाते इष्टोत्सेधसङ्ख्यायाः भुजासङ्ख्यानयनस्य, अघस्सूचिवेधस्य च सङ्ख्यानयनस्य सूत्रम् - मुखगुणवेधो मुखतलशेषहृतोऽत्रैव सूचिवेधः स्यात् । विपरीतवेधगुणमुरखतलयुत्यवलम्बयासः ॥ २६ ॥ अत्रोद्देशकः ।
समचतुरश्रा वापी विंशतिरूर्ध्वं चतुर्दशाधश्च । वेधो मुखे नवाधस्त्रयो भुजाः केऽत्र सूचिवेधः कः ॥ २७३ ॥ गोलकाकारक्षेत्रस्य फलानयनसूत्रम् -
व्यासार्थघनार्धगुणा नव गोलव्यावहारिकं गणितम् । तद्दशमांशं नवगुणमशेषसूक्ष्मं फलं भवति ॥ २८॥ अत्रोद्देशकः ।
Acharya Shri Kailassagarsuri Gyanmandir
षोडशविष्कम्भस्य च गोलकवृत्तस्य विगणय्य ।
किं व्यावहारिकफलं सूक्ष्मफलं चापि मे कथय ॥ २९३ ॥ शृङ्गाटकक्षेत्रस्य खातव्यावहारिक फलस्य खातसूक्ष्मफलस्य व
भुज कृतिदलघनगुणदशपदनवहय । वहारिकं गणितम् । त्रिगुणं दशपदभक्तं शृङ्गाटकसूक्ष्मघनगणितम् ॥ १०३ ॥ अत्रोद्देशकः ।
*यश्रस्य च शृङ्गाटकषडूबाहुघनस्य गणपित्वा । किं व्यावहारिकफलं गणितं सूक्ष्मं भवेत्कथय ॥ ३१३ ॥
For Private and Personal Use Only