________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खातव्यवहारः.
146
त्रिभुजस्य मुरवेऽशीतिः षष्टिमध्ये तले च पञ्चाशत् । बाहुत्रयेऽपि वेधो नव किं तस्यापि भवति गणितफलम् ॥ १८॥
रवातिकायाः रवातगणितफलानयनस्य च वातिकाया मध्ये सूचीमुरवाकारवत् उत्सेधे सति खातगणितफलानयनस्य च सूत्रम्
परिरवामुरवेन सहितो विष्कम्भस्त्रिभुजवृत्तयोस्त्रिगुणात् । आयामश्चतुरश्रे चतुर्गुणो व्याससङ्गुणितः ॥ १९ ॥ सूचीमुखवद्वेधे परिरवा मध्ये तु परिरवार्धम् । मुरवसहितमथो करणं प्राग्वत्तलसूचिवेधे च ॥ २०॥
अत्रोद्देशकः. त्रिभुजचतुर्भुजवत्तं पुरोदितं परिरवया परिक्षिप्तम् । दण्डाशीत्या व्यासः परिवाश्चतुरुर्विकास्त्रिवेधाः स्युः ।। २१ ।। आयतचतुरायामो विंशत्युत्तरशतं पुनर्व्यासः ।। चत्वारिंशत् परिरवा चतुरुर्वीका त्रिवेधा स्यात् ॥ २२ ॥
उत्सेधे बहुप्रकारवति सति खातफलानयनस्य च, यस्य कस्यचित स्वातफलं ज्ञात्वा तत्वातफलात् अन्यक्षेत्रस्य खातफलानयनस्य च सूत्रम्
वेधयुतिः स्थानहता वेधो मुखफलगुणः स्वरवातफलम् । त्रिचतुर्भुजवृत्तानां फलमन्यक्षेत्रफलहृतं वेधः ॥ २३ ॥
अत्रोद्देशकः । समचतुर श्रक्षेत्रे भूमिचतुर्हस्तमात्र विस्तारे । तत्रैकद्वित्रिचतुर्हस्तनिखाते कियान् हि समवेधः ॥ २४॥
14-A
For Private and Personal Use Only