________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
144
गणितसारसङ्ग्रहः. मस्मिन् स्वातगणिते कर्मान्तिकसंज्ञफलं च औण्डूसंज्ञफलं च ज्ञात्वा ताभ्यां कर्मान्तिकोण्डूसंज्ञफलाभ्यां सूक्ष्मखातफलानयनसूत्रम् --
बाह्याभ्यन्तरसंस्थिततत्तत्क्षेत्रस्थबाहुकोठभुवः । खप्रतिबाहुसमेता भक्तास्तत्क्षेत्रगणनयान्योन्यम् ॥ ९ ॥ गुणिताश्च वेधगुणिताः कर्मान्तिकसंज्ञगणितं स्यात् । तद्वाह्यान्तरसंस्थिततत्तत्क्षेत्रे फलं समानीय ॥ १० ॥ संयोज्य सङ्ख्ययाप्तं क्षेत्राणां वेधगुणितं च ।
औण्ड्रफलं तत्फलयोर्विशेषकस्य त्रिभागेन ।। संयुक्तं कर्मान्तिकफलमेव हि भवति सूक्ष्मफलम् ॥ ११ ॥
अत्रोद्देशकः। समचतुरश्रा वापी विंशतिरुपरीह षोडशैव तले। वेधो नव किं गणितं गणितविदाचक्ष्व मे शीघ्रम् ।। १२ ।। वापी समत्रिबाहुर्विंशतिरुपरीह षोडशैव तले । वेधो नव किं गणितं कर्मान्तिकमौण्डूमापि च सूक्ष्मफलम् ॥ १३ ॥ समवृत्तासौ वापी विंशतिरुपरीह षोडशैव तले । वेषो द्वादश दण्डाः किं स्यात्कर्मान्तिकौण्डूसूक्ष्मफलम् ।। १४॥ आयतचतुरश्रस्य त्वायामप्पष्टिरेव विस्तारः । द्वादश मुरवे तलेऽधं वेधोऽष्टौ किं फलं भवति ॥ १५॥ नवतिरशीतिः सप्ततिरायामश्चोर्ध्वमध्यमूलेषु । विस्तारो द्वाविंशत् षोडश दश सप्त वेधोऽयम् ॥ १६ ॥ व्यासः षष्टिर्वदने मध्ये त्रिंशत्तले तु पञ्चदश। . समवृत्तस्य च वेधः षोडश किं तस्य गणितफलम् ॥ १७ ॥
For Private and Personal Use Only