SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः खातव्यवहारः. सर्वामरेन्द्रमकुटार्चितपादपीठं सर्वज्ञमव्ययमचिन्त्यमनन्तरूपम् । भव्यप्रजासरसिजाकरबालभानु भक्त्या नमामि शिरसा जिनवर्धमानम् ॥ १॥ क्षेत्राणि यानि विविधानि पुरोदितानि तेषां फलानि गुणितान्यवगाहनानि (नेन)। कर्मान्तिकौण्डूफलसूक्ष्मविकल्पितानि वक्ष्यामि सप्तममिदं व्यवहाररवातम् ॥ २ ॥ सूक्ष्मगणितम्. अत्र परिभाषाश्लोकः हस्तघने पांसूनां द्वात्रिंशत्पलशतानि पूर्याणि । उत्कीर्यन्ते तस्मात् षट्त्रिंशत्पलशतानींह ॥ ३ ॥ स्वातगणितफलानयनसूत्रम्--- क्षेत्रफलं वेधगुणं समरवाते व्यावहारिकं गणितम् । मुरवतलयुतिदलमथ सत्सङ्ख्याप्तं स्यात्समीकरणम् ॥ ४ ॥ अत्रोद्देशकः. समचतुर श्रस्याष्टी बाहुः प्रतिबाहुकश्च वेधश्च । क्षेत्रस्य वातगणितं समरवाते किं भवेदत्र ॥५॥ त्रिभुजस्य क्षेत्रस्य द्वात्रिंशद्वाहुकस्य वेधे तु । षट्त्रिंशदृष्टास्ते षडङ्गुलान्यस्य किं गणितम् ॥ ६ ॥ साष्टशतव्यासस्य क्षेत्रस्य हि पञ्चषष्टिसहितशतम् । वेधो वृत्तस्य त्वं समरवाते किं फलं कथय ॥ ७ ॥ आयतचतुरश्रस्थ व्यासः पञ्चायविंशतिर्बाहुः । षष्टिवैधोऽष्टशतं कथयाशु समस्य वातस्य ॥८॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy