________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षेत्र गणितव्यवहारः.
व्यासाधिगमोनस्स च चतुर्गुणिताधिगमेन सङ्गुणितः ।
यत्तस्य वर्गमूलं ज्यारूपं निर्दिशेत्प्राज्ञः ॥ २२९ ॥ अत्रोद्देशकः ।
व्यासो दश वृत्तस्य द्वाभ्यां छिन्नो हि रूपाभ्याम् । छिन्नस्य ज्या का स्यात्प्रगणध्याचक्ष्व तां गणक ।। २२६३ ॥ समवृत्त क्षेत्र व्यासस्य च मौर्व्याश्च सङ्ख्यां ज्ञात्वा बाणसख्यानयनसूत्रम् -
व्यासज्यारूपकयोर्वर्गविशेषस्य भवति यन्मूलम् । तद्विष्कम्भाच्छोभ्यं शेषार्धमिषुं विजानीयात् ॥ २२७ ॥ अत्रोद्देशकः ।
दश वृत्तस्य विष्कम्भः शिञ्जिन्यभ्यन्तरे सरखे ।
दृष्टाष्टौ हि पुनस्तस्याः कः स्यादधिगमो वद ।। २२८॥
ज्यासङ्ख्यां च बाणसङ्ख्यां च ज्ञात्वा समवृत्तक्षेत्रस्य मध्यव्यास.
सयानयनसूत्रम् -
भक्तश्चतुर्गुणेन च शरेण गुणवर्गराशिरिषुसहितः । समवृत्तमध्यमस्थितविष्कम्भोऽयं विनिर्दिष्टः ॥ २२९ ॥
अत्रोद्देशकः ।
कस्यापि च समवृत्तक्षेत्रस्याभ्यन्तराधिगमनं हे । ज्या दृष्टाष्टौ दण्डा मध्यव्यासो भवेत्कोऽत्र ॥ २१०३॥
141
For Private and Personal Use Only
समवृत्तद्वयसंयोगे एका मत्स्याकृतिर्भवति । तन्मत्स्यस्य मुखपुच्छ. विनिर्गतरेखा कर्तव्या । तथा रेखया अन्योन्याभिमुखधनुर्द्वयाकृतिर्भ