SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षेत्रगणितव्यवहारः. 139 दिनगतिकृतिसंयोगं दिनगतिकृत्यन्तरेण हत्वाथ । हत्वोदग्गतिदिवसैस्तल्लब्धदिने समागमः स्यान्नोः ।। २१०३ ॥ अत्रोद्देशकः । हे योजने प्रयाति हि पूर्वगतिस्त्रीणि योजनान्यपरः । उत्तरतो गच्छति यो गत्वासौ तदिनानि पञ्चाथ ॥ २११३ ॥ गच्छन् कर्णाकृत्या कतिभिर्दिवसैर्नर समानोति । उभयोयुगपद्मनं प्रस्थानदिनानि सदृशानि ॥ २१२३ ॥ पञ्चविधचतुरश्रक्षेत्राणां च त्रिविधत्रिकोणक्षेत्राणां चेत्यष्टविधबाह्यसत्तव्याससख्यानयनसूत्रम् श्रुतिरबलम्बकभक्ता पार्श्वभुजघ्ना चतुर्भुजे त्रिभुजे । भुजघातो लम्बहृतो भवेद्वहिर्वृत्तविष्कम्भः ॥ २१३ ॥ अत्रोद्देशकः । समचतुर अस्य त्रिकबाहुप्रतिबाहुकस्यं चान्यस्य । कोटिः पञ्च द्वादश भुजास्य किं वा बहिर्वृत्तम् ॥ २१४३ ।। बाहू त्रयोदश मुरवं चत्वारि धरा चतुर्दश प्रोक्ता। द्विसमचतुरश्रबाहिरविष्कम्भः को भवेदत्र ।। २१५ ।। पञ्चकृतिर्वदन मुजाश्चत्वारिंशञ्च भूमिरेकोना।। त्रिसमचतुर श्रबाहिरवृत्तव्यासं ममाचक्ष्व ॥ २११३ ॥ व्येका चत्वारिंशदाहुः प्रतिबाहुको द्विपञ्चाशत् । षष्टिभूमिर्वदनं पश्चकृतिः कोऽत्र विष्कम्भः ॥ २१७ ॥ त्रिसमस्य च षट् बाहुस्त्रयोदश द्विसमबाहुकस्यापि । भूमिर्दश विष्कम्मावनयोः को बाह्यवत्तयोः कथय ।। २१८॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy