________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
138
: गणित सारसङ्ग्रहः.
इयं व्युत्क्रमेण निक्षिप्य तद्युत्क्रमं न्यस्ताबाधाद्वयमेव आयतचतुरश्रक्षेत्र. द्वये कोटिद्वयं परिकल्प्य तत्कर्णद्वयस्य समानसङ्ख्यानयनसूत्रम्डोलाकारक्षेत्र स्तम्भद्वितयोर्ध्वसङ्ख्ये वा ।
Acharya Shri Kailassagarsuri Gyanmandir
शिखरिद्वयोर्ध्वसङ्ख्ये परिकल्प्य भुजद्वयं त्रिकोणस्य || २०१३ ॥ तद्दोर्द्वितयान्तरगत भूसङ्ख्यायास्तदाबाचे ।
आनीय प्राग्वत्ते व्युत्क्रमतः स्थाप्य ते कोटी || २०२३ ॥ स्यातां तस्मिन्नायतचतुरश्रक्षेत्रयोश्च तद्दोर्भ्याम् । कोटिभ्यां कर्णौ द्वौ प्राग्वत्स्यातां समानसङ्ख्यौ ती ॥ २०३ ॥ अत्रोद्देशकः । स्तम्भस्त्रयोदशकः पचदशान्यश्चतुर्दशान्तरितः । रज्जुर्बद्धा शिखरे भूमीपतिता क' आबाधे ||
ते रज्जू समसङ्ख्ये स्यातां तद्रज्जुमानमपि कथय ॥ २०९ ॥ द्वाविंशतिरुत्सेधो गिरेस्तथाष्टादशान्यशैलस्य । विंशतिरुभयोर्मध्ये तयोश्च शिवयोस्स्थितौ साधू ॥ २०६ ॥ आकाशचारिणौ तौ समागतौ नगरमत्र भिक्षायै । समगतिको सञ्जातौ तत्रावाधे कियत्सङ्ख्ये || समगतिसङ्ख्या कियती डोलाकारेऽत्र गणितज्ञ ॥ २०७ ॥ विंशतिरेकस्योन्नतिरद्रेश्व जिनास्तथान्यस्य ।
तन्मध्यं द्वाविंशतिरनयोरद्योश्च शृङ्गयोः स्थित्वा ॥ २०८॥ आकाशचारिणी ही तन्मध्यपुरं समायातौ । भिक्षायै समगतिकौ स्यातां तन्मध्यशिरवरिमध्यं किम् ॥ २०९ ॥ विषमत्रिकोणक्षेत्ररूपेण हीनाधिक गतिमतोर्नरयोः समागमदिन. सख्यानयनसूत्रम् —
1. क आबाधे is grammatically incorrect since there oan be no sandhi between के in the dual number and आबाधे ; vide footnote on page 136.
For Private and Personal Use Only