________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षेत्रगणितव्यवहारः.
1187 ज्येष्ठस्तम्भसङ्ख्यां च अल्पस्तम्भसङ्ख्यां च ज्ञावा उभयस्त. म्भान्तरभूमिसङ्ख्यां ज्ञात्वा तज्येष्ठसख्ये भग्ने सति ज्येष्ठसम्भाग्रे अस्पस्तम्भानं स्टशति सति ज्येष्ठस्तम्भस्य मनसङ्ख्यानयनस्य स्थितशेषप्तयानयनस्य च सूत्रम्
ज्येष्ठस्तम्भस्य कृतेर्हस्वावनिवर्गयुतिमपोद्यार्थम् । स्तम्भविशेषेण हृतं लब्धं भग्रोन्नतिर्भवति ॥ १९६३ ॥
___अत्रोद्देशकः । स्तम्भः पञ्चोच्छ्रायः परस्त्रयोविंशतिस्तथा ज्येष्ठः । मध्यं द्वादश अग्रज्येष्ठाग्रं पतितमितराये ॥ १९७ ॥
आयतचतुरश्रक्षेत्रकोठिसङ्ख्यायास्तृतीयांशद्वयं पर्वतोत्सेधं परि. कल्प्य तत्पर्वतोत्सेधसङ्ख्यायाः सकाशात् तदायत्तचतुरश्रक्षेत्रस्य भुज. सङ्ख्यानयनस्य कर्णसङ्ख्यानयनस्य च सूत्रम्
गिर्युत्सेधो द्विगुणो गिरिपुरमध्यक्षितिगिरेरर्धम् । गगने तत्रोत्पतितं गिर्यर्धव्याससंयुतिः कर्णः ॥ १९ ॥
अत्रोद्देशकः। षड्योजनोर्ध्वशिरवरिणि यतीश्वरौ तिष्ठतस्तत्र । एकोऽङ्गिचर्ययागात्तत्राप्याकाशचार्यपरः ॥ १९९ ॥ श्रुतिवशमुत्पत्य पुरं गिरिशिरवरान्मूलमवरुह्यान्यः । समगतिको सञ्जातौ नगरव्यासः किमुत्पतितम् ॥ २०० ॥
डोलाकारक्षेत्रे सम्भद्वयस्य वा गिरिद्वयस्य वा उत्सेधपरिमाण. सङ्ख्यामेव आयतचतुरश्रक्षेत्रद्वये भुजद्वयं परिकल्प्य तद्दिरिद्वयान्तरभम्यां वा तत्स्तम्भद्वयान्तरभूम्यां वा आबाधाद्वयं परिकल्प्य तदाबाधा.
12
For Private and Personal Use Only