________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षेत्रगणितव्यवहारः.
आयतचतुरश्राणां क्षेत्राणां विषमबाहुकानां च । कर्णोऽत्र पञ्चषष्टिः क्षेत्राण्याचक्ष्व कानि स्युः ॥ १२४ ॥ इष्टजन्यायतचतुरश्रक्षेत्रस्य रज्जुसयां च कर्णसङ्ख्यां च ज्ञात्वा तज्जन्यायतचतुरश्रक्षेत्रस्य भुजकोटिसङ्ख्यानयनसूत्रम् -
कर्णकृतौ द्विगुणायां रज्वर्धकृतिं विशोध्य तन्मूलम् । रज्ज्वर्थे सङ्क्रमणीकृते भुजा कोटिरपि भवति ।। १२९३ ॥ अत्रोद्देशकः ।
परिधिः स चतुस्त्रिंशत् कर्णश्चात्र त्रयोदशो दृष्टः । जन्यक्षेत्रस्यास्य प्रगणय्याचक्ष्व कोटि भुजौ ॥ १२६ ॥ क्षेत्रफलं कर्णसङ्ख्यां च ज्ञात्वा भुजकोटिसङ्ख्यानयनसूत्रम्कर्णकृतौ द्विगुणीकृतगणितं हीनाधिकं कृत्वा । मूलं कोटिभुजौ हि ज्येष्ठे इखेन सङ्क्रमणे ॥ १२७ ॥ अत्रोद्देशकः ।
127
आयतचतुरश्रस्य हि गणितं षष्टिस्त्रयोदशास्यापि । कर्णस्तु कोटिभुजयोः परिमाणे श्रोतुमिच्छामि ॥ १२८ ॥ क्षेत्रफलसङ्ख्यां रज्जुसङ्ख्यां च ज्ञात्वा आयतचतुरश्रस्य भुजकोटिसङ्ख्यानयनसूत्रम् -
रज्ज्वर्ध वर्गराशेणितं चतुराहतं विशोध्याथ |
मूलन हि रज्वर्धे सङ्क्रमणे सति भुजाकोठी ॥ १२९३॥ अत्रोद्देशकः ।
सप्ततिशतं तु रज्जुः पश्चशतोत्तरसहस्रमिष्टधनम् । नन्यायतचतुरश्रे कोठिभुजौ मे समाचक्ष्व ॥ १३० ॥
For Private and Personal Use Only