________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
126
गणितसारसङ्गहः. कों गणितेन समः समचतुरश्रस्य को भवेद्वाहुः । रज्जुढिगुणोऽन्यस्य क्षेत्रस्य धनाच्च मे कथय ॥ ११४॥
आयतचतुरश्रस्य क्षेत्रस्य च रज्जुतुल्यमिह गणितम् । गणितं कर्णेन समं क्षेत्रस्यान्यस्य को बाहुः ॥ ११५३ ।। कस्यापि क्षेत्रस्य त्रिगुणो बाहुर्धनाञ्च को बाहुः । कर्णश्चतुर्गुणोऽन्यः समचतुरश्रस्य गणितफलात् ॥ ११६ ॥ आयतचतुरश्रस्य श्रवणं द्विगुणं त्रिसङ्गुणो बाहुः ।। कोटिश्चतुर्गुणा तै रज्जुयुतैदिगुणितं गणितम् ॥ ११७३ ।। आयतचतुर श्रस्य क्षेत्रस्य च रज्जुरत्र रूपसमः । कोटिः को बाहुर्वा शीघ्रं विगणय्य मे कथय ।। ११८॥ कर्णो द्विगुणो बाहुस्त्रिगुणः कोटिश्चतुर्गुणा मिश्रः । रज्ज्वा सह तत्क्षेत्रस्यायतचतुरश्रकस्य रूपसमः ।। ११९॥ पुनरपि जन्यायतचतुरश्रक्षेत्रस्य बीजसख्यानयने करणसूत्रम्कोत्यूनकर्णदलतत्कर्णान्तरमुभययोश्च पदे । आयतचतुरश्रस्य क्षेत्रस्येयं क्रिया जन्ये ॥ १२० ॥
___अत्रोद्देशकः। आयतचतुर श्रस्य च कोटिः पञ्चाशदधिकपञ्च भुजा । साष्टाचत्वारिंशत्रिसप्ततिः श्रुतिरथात्र के बीजे ॥ १२१ ।। इष्टकल्पितसङ्ख्याप्रमाणवत्कर्णसहितक्षेत्रानयनसूत्रम्--- पद्यत्क्षेत्रं जातं बीजैस्संस्थाप्य तस्य कर्णेन । इष्टं कर्ण विभजेल्लाभगुणाः कोटिदोःकर्णाः ॥ १२२॥
अत्रोदेशकः । एकहिकाहिकत्रिकचतुष्कसप्तैकसाष्टकानां च । गणक चतुर्णा शीघं बीजैरुत्थाप्य कोठिभुजाः ॥ १२३ ॥
For Private and Personal Use Only