________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
125
क्षेत्रगणितव्यवहारः.
125 विषमत्रिभुजक्षेत्रस्य कल्पनाप्रकारस्य सूत्रम्
जन्यभुजार्ध छित्वा केनापिच्छेदलब्धजं चाभ्याम् । कोठियुतिर्भूः कर्णौ भुजौ भुजा लम्बका विषमे ॥ ११० ॥
___ अत्रोद्देशकः । हे द्वित्रिबीजकस्य क्षेत्रभुजार्थेनं चान्यमुत्थाप्य । तस्माद्विषमत्रिभुजे भुजभूम्यवलम्बकं ब्रूहि ।। १११ ॥ इति जन्यव्यवहारः समाप्तः ॥
पैशाचिकव्यवहारः. इतः परं पैशाचिकव्यवहारमुदाहरिष्यामः ।
समचतुरश्रक्षेत्रे वा आयतचतुर श्रक्षेत्रे वा क्षेत्रफले रज्जुसङ्ख्यया समे सति, क्षेत्रफले बाहुसङ्ख्यया समे सति, क्षेत्रफले कर्णसङ्ख्यया समे सति, क्षेत्रफले रज्वर्धसङ्ख्यया समे सति, क्षेत्रफले बाहोस्तृतीयांशसमयया समे सति, क्षेत्रफले कर्णसङ्ख्यायाश्चतुर्थांशसङ्ख्यया समे सति, द्विगुणितकर्णस्य त्रिगुणितबाहोश्च चतुर्गुणितकोटेश्च रजोस्संयोगसङ्ख्यां द्विगुणीकृत्य तद्दिगुणितसङ्ख्यया क्षेत्रफले समाने सति, इत्येवमादीना क्षेत्राणां कोटिभुजाकर्णक्षेत्रफलरज्जुषु इष्टराशिद्वयसाम्यस्य चेष्टराशिद्वयस्यान्योन्यमिष्टगुणकारगुणितफलवत्क्षेत्रस्य भुजाकोटिसङ्गख्यानयनस्य सूत्रम्
स्वगुणेष्टेन विभक्तास्खेष्टानां गणक गणितगुणितेन । गुणिता भुजा भुजाः स्युः समचतुरश्रादिजन्यानाम् ॥ ११२ ।।
अत्रोद्देशकः । रज्जुर्गणितेन समा समचतुर श्रस्य का तु मुजसङ्ख्या । अपरस्य बाहुसदृशं गणितं तस्यापि मे कथय ॥ ११३॥
For Private and Personal Use Only