________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
122
गणितसारसग्रहः.
जन्यव्यवहारः. इतः परं क्षेत्रगणिते जन्यव्यवहारमुदाहरिष्यामः । इष्टसङ्ख्याबीजाभ्यामायतचतुरश्रक्षेत्रानयनसूत्रम्
वर्गविशेषः कोटिस्संवर्गों द्विगुणितो भवेद्वाहुः । धर्गसमासः कर्णश्चायतचतुरश्रजन्यस्य ॥ ९० ॥
अत्रोद्देशकः । एकहिके तु बीने क्षेत्रे जन्ये तु संस्थाप्य । कथय विगणय्य शीघ्रं कोटिभुजाकर्णमानानि ॥ ९१ ।। बीजे हे त्रीणि सरखे क्षेत्रे जन्ये तु संस्थाप्य । कथय विगणय्य शीघ्रं कोटिभुजाकर्णमानानि ॥ ९२ ।। पुनरपि बीजसंज्ञाभ्यामायतचतुरश्रक्षेत्रकल्पनायाः सूत्रम्बीजयुनिवियुतिघातः कोठिस्तद्वर्गयोश्च सङ्क्रमणे । बाहुश्रुती भवेता जन्यविधौ करणमेतदपि ॥ ९३ ।।
अत्रोद्देशकः । त्रिकपचकबीजाभ्यां जन्यक्षेत्रं सरवे समुत्थाप्य । कोटिभुजाश्रुतिसङ्ख्याः कथय विचिन्त्याशु गणिततच्वज्ञ ।। ९४ ।। इष्टजन्यक्षेत्राद्वीजमंज्ञसङ्ख्ययोरानयनसूत्रम् -
कोठिच्छेदावाप्त्योस्सङ्क्रमणे बाहुदलफलच्छेदौ । बीने श्रुतीष्टकृत्योर्योगवियोगार्धमूले ते ॥ ९५५ ॥
अत्रोद्देशकः । कस्यापि क्षेत्रस्य च षोडश कोटिन बीजे के। त्रिंशदयवान्यबाहुबर्बीजे के ते श्रुतिश्चतुरिंशत् ॥ ९१ ॥
For Private and Personal Use Only