________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
120
गणितसारसबाहः
अत्रोद्देशकः । चतुर्विशतिरायामो विस्तारोऽष्टी मुरवद्वये ।। क्षेत्रे मृदङ्गसंस्थाने मध्ये षोडश किं फलम् ॥ ७७६ ॥ चतुर्विंशतिरायामस्तथाष्टौ मुरवयोईयोः । चत्वारो मध्यविष्कम्भः किं फलं पणवाकृतौ ॥ ७८६ ॥ चतुर्विंशतिरायामस्तथाष्टौ मुरवयोईयोः । मध्ये सूचिस्तथाचक्ष्व वजाकारस्य किं फलम् ॥ ७९ ॥ नेमिक्षेत्रस्य च बालेन्द्राकारक्षेत्रस्य च इभदन्ताकारक्षेत्रस्य च सूक्ष्मफलानयनसूत्रम् -
पृष्ठोदरसंक्षेपः षड्भक्तो व्यासरूपसङ्गणितः । दशमूलगुणो नेमेर्बालेन्द्विभदन्तयोश्च तस्यार्धम् ॥ ८०३ ॥
अत्रोद्देशकः । पृष्ठं चतुर्दशोदरमष्टौ नेम्याकृतौ भूमौ । मध्ये चत्वारि च तद्बालेन्दोः किमिभदन्तस्य ॥ ८१३ ॥ चतुर्मण्डलमध्यस्थितक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्विष्कम्भवर्गराशेर्वृत्तस्यैकस्य सूक्ष्मफलम् । त्यक्त्वा समवृत्तानामन्तरजफलं चतुर्णा स्यात् ॥ २३ ॥
अत्रोद्देशकः । गोलकचतुष्टयस्य हि परस्परस्पर्शकस्य मध्यस्य । सूक्ष्म गणितं किं स्याच्चतुष्कवि कम्भयुक्तस्य ॥ ८३ ॥
For Private and Personal Use Only