________________
Shri Mahavir Jain Aradhana Kendra
118
www.kobatirth.org
गणितसारस ज्वन्दः
आयतवृत्तक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्
व्यासकृतिष्षङ्गणिता द्विसङ्गणायाम कृतियुता (पदं) परिधिः । व्यासचतुर्भागगुणश्चायतवृत्तस्य सूक्ष्मफलम् ॥ १३ ॥ अत्रोद्देशकः ।
आयतवृत्तायामः षट्त्रिंशद्द्वादशास्य विष्कम्भः । कः परिधिः किं गणितं सूक्ष्मं विगणय्य मे कथय ॥ ६४ ॥ शङ्खकारक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्
वदनानो व्यासो दशपदगुणितो भवेत्परिक्षेपः । मुखदलरहितव्यासार्धवर्गमुखचरणकृतियोगः ॥ ६५ ॥ दशपदगुणितः क्षेत्रे कम्बुनिभे सूक्ष्मफलमेतत् ।। ६५३ ॥ अत्रोद्देशकः ।
नसूत्रम् -
Acharya Shri Kailassagarsuri Gyanmandir
व्यासोऽष्टादश दण्डा मुखविस्तारोऽयमपि च चत्वारः । कः परिधिः किं गणितं सूक्ष्मं तत्कम्बुकावृत्ते ॥ ६६३ ॥ बहिश्चक्रवालवृत्तक्षेत्रस्य चान्तश्चक्रवालवृत्तक्षेत्रस्य च सूक्ष्मफलानय
निर्गमसहितो व्यासो दशपदनिर्गमगुणो बहिर्गणितम् । रहितोऽधिगमेनासावभ्यन्तरचक्रवालवृत्तस्य ॥ ६७ ॥
अत्रोद्देशकः ।
व्यासोऽष्टादश दण्डाः पुनर्बहिर्निर्गतास्त्रयो दण्डाः । सूक्ष्मगणितं वद त्वं बहिरन्तश्चक्रवालवृत्तस्य ॥ ६८ ॥ व्यासोऽष्टादश दण्डा अन्तः पुनरधिगताश्च चत्वारः । सूक्ष्मगणितं वद त्वं चाभ्यन्तरचक्रवालवृत्तस्य ॥ ६९ ॥
For Private and Personal Use Only