________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
117
क्षेत्रगणितम्यवहारः इतः परं पश्चप्रकाराणां चतुरश्रक्षेत्राणां कर्णानयनसूत्रम्-- क्षितिहतविपरीतभुजौ मुरवगुणमुजमिश्रितौ गुणच्छेदौ । छेदगुणी प्रतिमुजयोः संवर्गयुतेः पदं कर्णौ ॥ १४ ॥
अत्रोद्देशकः । समचतुरश्रस्य त्वं समन्ततः पञ्चबाहुकस्याशु । कर्ण च सूक्ष्मफलमपि कथय सरवे गणिततत्त्वज्ञ ॥ ५५ ॥ आयतचतुरश्रस्य द्वादश बाहुश्च कोटिरपि पश्च । कर्णः कः सूक्ष्मं किं गणितं चाचक्ष्व मे शीघ्रम् ॥ १६ ॥ द्विसमचतुरश्रभूमिः षट्त्रिंशद्वाहुरेकषष्टिश्च । सोऽन्यश्चतुर्दशास्यं कर्णः कः सूक्ष्मगणितं किम् ॥ ५७ ।। वर्गस्त्रयोदशानां त्रिसमचतुर्बाहु के पुनर्भूमिः । सप्त चतुश्शतयुक्तं कर्णावाधावलम्बगणितं किम् ॥५८ ।। विषमचतुरश्रबाहू त्रयोदशाभ्यस्तपञ्चदशविंशतिकौ ।
पश्चघनो वदनमधस्त्रिशतं कान्यत्र कर्णमुखफलानि || ५९ ॥ इतः परं वृत्तक्षेत्राणां सूक्ष्मफलानयनसूत्राणि । तत्र समवृत्तक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्
वृत्तक्षेत्रव्यासो दशपदगुणितो भवेत्परिक्षेपः । व्यासचतुर्भागगुणः परिधिः फलमर्धमधं तत् ॥ १० ॥
___ अत्रोद्देशकः । समवृत्तव्यासोऽष्टादश विष्कम्भश्च षष्टिरन्यस्य । द्वाविंशतिरपरस्य क्षेत्रस्य हि के च परिधिफले ॥ ६१ ॥ द्वादशविष्कम्भस्य क्षेत्रस्य हि चार्धवृत्तस्य । षत्रिंशयासस्य कः परिधिः किं फलं भवति ॥ ॥ १२ ॥
For Private and Personal Use Only