________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
116
गणितसारसङ्ग्रहः
अत्रोद्देशकः । पश्चदशबाहुकस्य क्षेत्रस्याभ्यन्तरं बहिर्गणितम् । चतुरश्रस्य च वृत्तव्यवहारफलं ममाचक्ष्व ॥ ४८ ॥
इति व्यावहारिकगणितं समाप्तम् ।
अथ सूक्ष्मगणितम्. इतः परं क्षेत्रगणिते सूक्ष्मगणितव्यवहारमुदाहरिष्यामः । तद्यथा -- आबाधावलम्बकानयनसूत्रम् --- मुजकृत्यन्तरभूहृत भूसङ्कमणं त्रिबाहुकाबाधे । तद्भुजवर्गान्तरपदमवलम्बकमाहुराचार्याः ।। ४९ ॥ सूक्ष्मगणितानयनसूत्रम्मुजयुत्यर्धचतुष्काढुजहीनाद्वातितात्पदं सूक्ष्मम् । अथवा मुरवतलयुतिदलमवलम्बगुणं न विषमचतुरश्रे ॥ ५० ॥
अत्रोद्देशकः । त्रिभुजक्षेत्रस्याष्टौ दण्डा पूर्वाहको समस्य त्वम् । सूक्ष्मं वद गणितं मे गणितविदवलम्बकाबाधे ॥ ११ ॥ द्विसमत्रिभुजक्षेत्रे त्रयोदश स्युर्भुजद्वये दण्डाः । दश भूरस्याबाधे अथावलम्ब च सूक्ष्मफलम् ॥ ५२ ॥ विषमत्रिभुजस्य भुजा त्रयोदश प्रतिभुजा तु पश्चदश । भूमिश्चतुर्दशास्य हि किं गणितं चावलम्बकाबाधे ॥ १३ ॥
1 After this M adds the following :--त्रिभुजक्षेत्रस्य अपस्स्थितभामिसंस्पृष्टरेखाया नाम अवलम्वकः स्यात् ।
भुजद्वयसंयोगस्थानमारभ्य
For Private and Personal Use Only