________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
116
116
क्षेत्रगणितव्यवहारः
अत्रोद्देशकः । षड्बाहुकस्य बाहोविष्कम्भः पञ्च चान्यस्य । व्यासस्त्रयो भुजस्य त्वं षोडशबाहुकस्य वद ॥ ४० ॥ त्रिभुजक्षेत्रस्य भुजः पञ्च प्रतिबाहरपि च सप्त धरा षट् । अन्यस्य षडअस्य ह्येकादिषडन्तविस्तारः ॥ ४१ ॥ मण्डलचतुष्टयस्य हि नवविष्कम्भस्य मध्यफलम् ।
षट्पश्चचतुळसा उत्तत्रितयस्य मध्यफलम् ॥ ४२ ॥ धनुराकारक्षेत्रस्य व्यावहारिकफलानयनसूत्रम्कृत्वेषुगुणसमासं बाणार्धगुणं शरासने गणितम् । शरवर्गात्पञ्चगुणाज्ज्यावर्गयुतात्पदं काष्ठम् ॥ ४३ ॥
अत्रोद्देशकः । ज्या पावंशतिरेषा त्रयोदशेषुश्च कार्मुकं दृष्टम् । किं गणितमस्य काष्ठं किं वाचक्ष्वाशु मे गणक ॥ ४४ ॥ बाणगुणप्रमाणानयनसूत्रम्गुणचापकृतिविशेषात् पञ्चहृतात्पदमिषुः समुद्दिष्टः । शरवर्गात्पश्चगुणादूना धनुषः कृतिः पदं नीवा ॥ ४५ ॥
अत्रोद्देशकः । अस्य धनुःक्षेत्रस्य शरोऽत्र न ज्ञायते परस्यापि ।
न ज्ञायते च मौर्वी तद्यमाचक्ष्व गणितज्ञ ॥ १६ ॥ बहिरन्तश्चतुरश्रकवृत्तस्य व्यावहारिकफलानयनसूत्रम्
बाहो वृत्तस्येदं क्षेत्रस्य फलं त्रिसंगुणं दलितम् । अभ्यन्तरे तदर्ध विपरीते तत्र चतुरश्रे ॥ ४७ ॥
For Private and Personal Use Only