________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
114
गणितसारसङ्ग्रहः
वाकारमर्दलाकार पणवाकारवज्जाकाराणां क्षेत्राणां व्यावहारिक
फलानयनसूत्रम्-
Acharya Shri Kailassagarsuri Gyanmandir
यवमुरज पणवशक्रायुधसंस्थान प्रतिष्ठितानां तु । मुखमध्यसमासार्धं त्वायामगुणं फलं भवति ॥ ३२ ॥
अत्रोद्देशकः ।
यवसंस्थानक्षेत्रस्यायामोऽशीतिरस्य विष्कम्भः । मध्यश्चत्वारिंशत्फलं भवेत्किं ममाचक्ष्व ॥ ३३ ॥ आयामोऽशीतिरयं दण्डा मुखमस्य विंशतिर्मध्ये । चत्वारिंशत्क्षेत्रे मृदङ्गसंस्थान के ब्रूहि ॥ ३४ ॥ पणवाकारक्षेत्रस्यायामः सप्तसप्ततिर्दण्डाः । मुवयोर्विस्ताऽष्टौ मध्ये दण्डास्तु चत्वारः ॥ ३५ ॥ वज्राकृतेस्तथास्य क्षेत्रस्य षडग्रनवतिरायामः । मध्ये सूचिर्मुखयोस्त्रयोदश त्र्यंशसंयुता दण्डाः || ३१ ॥ उभयनिषेधादिक्षेत्रफलानयनसूत्रम् -
व्यासात्त्वायामगुणाद्विष्कम्भार्धप्रदीर्घमुत्सृज्य । त्वं वद निषेधमुभयोस्तदर्धपरिहीणमेकस्य ॥ ३७ ॥
अत्रोद्देशकः ।
आयामः षट्त्रिंशद्विस्तारोऽष्टादशैव दण्डास्तु । उभयनिषेधे किं फलमेकनिषेधे च किं गणितम् ॥ ३८ ॥ बहुविधवज्जाकाराणां क्षेत्राणां व्यावहारिक फलानयनसूत्रम् —' रज्ज्वर्ध कृतित्र्यंशो बाहविभक्तो निरेकबाहुगुणः । सर्वेषामश्रवत फलं हि बिम्बान्तरे चतुर्थांशः ॥ ३९ ॥
For Private and Personal Use Only