________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षेत्रगणितव्यवहारः
118 अत्रोद्देशकः । चत्वालक्षेत्रस्य व्यासस्तु भसङ्ख्यकः परिधिः ।
षट्पञ्चाशदृष्टं गणितं तस्यैव किं भवति ॥ २६ ॥ कूर्मनिभस्योन्नतवृत्तस्योदाहरणम्विष्कम्भः पञ्चदश दृष्टः परिधिश्च षट्त्रिंशत् । कूर्मनिभे क्षेत्रे किं तस्मिन् व्यवहारजं गणितम् ॥ २७ ॥
अन्तश्चक्रवालवृत्तक्षेत्रस्य बहिश्चक्रवालटत्तक्षेत्रस्य व व्यवहारफलानयनसूत्रम्
निर्गमसहितो व्यासस्त्रिगुणो निर्गमगुणों बहिर्गणितम् । रहिताधिगमव्यासादभ्यन्तरचक्रवालवृत्तस्य ॥ २८ ॥
अत्रोद्देशकः । व्यासोऽष्टादश हस्ताः पुनर्बहिनिर्गतास्त्रयस्तत्र । व्यासोऽष्टादश हस्ताश्चान्तः पुनरधिगतास्त्रयः किं स्यात् ॥ २९ ॥ समवृत्तक्षेत्रस्य व्यावहारिकफलं च परिधिप्रमाणं च व्यासप्रमाणं च संयोज्य एतत्संयोगसक्यामेव स्वीकृत्य तत्संयोगप्रमाणराशेः सकाशात् पृथक् परिधिव्यासफलानां सङ्ख्यानयनसूत्रम् -
गणिते द्वादशगुणिते मिश्रप्रक्षेपकं चतुःषष्टिः । तस्य च मूलं कृत्वा परिधिः प्रक्षेपकपदोनः ॥ ३० ॥
अत्रोद्देशकः । परिधिव्यासफलानां मिश्रं षोडशशतं सहस्रयुतम् । कः परिधिः किं गणितं व्यासः को वा ममाचक्ष्व ॥३१॥
For Private and Personal Use Only