________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रक व्यवहारः
अपराधदाहरणम् ।
षड़ योजनानि कश्चित्पुरुषस्त्वपरः प्रयाति च त्रीणि । उभयोरभिमुखगत्योरष्टोत्तरशतकयोजनं गम्यम् ।
प्रत्येकं च तयोः स्यात्कालः किं गणक कथय मे शीघ्रम् ॥ ३२९ ॥
सङ्कलितसमागमकालयोजनानयनसूत्रम् -
उभयोराद्योश्शेषश्चयशेषहृतो द्विसङ्गुणः सैकः ।
युगपत्प्रयाणयोस्स्यान्मार्गे तु समागमः कालः || ३२२३ ॥ अत्रोद्देशकः ।
चत्वार्याद्यष्टोत्तरमेको गच्छत्यथो द्वितीयो ना ।
द्वौ प्रचयश्च दशादिः समागमे कस्तयोः कालः || ३२३३ ॥
वृद्ध्युत्तरहीनोत्तरयोस्समागमकालानयनसूत्रम्
शेषश्चाद्योरुभयोश्चययुतदल भक्तरूपयुतः ।
युगपत्प्रयाणकृतयोर्मार्गे संयोगकालः स्यात् ॥ ३२४ ॥ 'अत्रोद्देशकः ।
पश्वाद्यष्टोत्तरतः प्रथमो नाथ द्वितीयनरः ।
107
For Private and Personal Use Only
आदिः पश्ञ्चन्ननव प्रचयो हीनोऽष्ट योगकालः कः || ३२५३ ॥ शघ्रिगतिमन्दगत्योस्समागमकालानयनसूत्रम्
मन्दगतिशीघ्रगत्योरेकाशागमनमत्र गम्यं यत् ।
तद्गत्यन्तरभक्तं लब्धदिनैस्तैः प्रयाति शीघ्रोऽल्पम् ॥ ३२६ ॥ अत्रोद्देशकः ।
नवयोजनानि कश्चित्प्रयाति योजनशतं गतं तेन । प्रतिदूतो व्रजति पुनस्त्रयोदशामोति कैर्दिवसैः ॥ ३२७ ॥
10-A