________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
106
गणितसारसङ्ग्रहः का भवति कथय शीघ्रं यदि तेऽस्ति परिश्रमो गणिते ॥ ३१३ ॥ अधिकहीनगुणसङ्कलितानयनसूत्रम् ---
गुणचितिरन्यादिहता विपदाधिकहीनसङ्गणा भक्ता । व्येकगुणेनान्या फलरहिता हीनेऽधिके तु फलयुक्ता ॥ ३१४ ॥
_ अत्रोद्देशकः । पश्च गुणोत्तरमादिौं त्रीण्यधिकं पदं हि चत्वारः । अधिकगुणोत्तरचितिका कथय विचिन्त्यिाशु गणिततत्त्वज्ञ ॥ ३१५॥ आदिस्त्रीणि गुणोत्तरमष्टौ हीनं द्वयं च दश गच्छः । हीनगुणोत्तरचितिका का भवति विचिन्त्य कथय गणकाशु ॥ ३१ ॥ आद्युत्तरगच्छधनमिश्राद्युत्तरगच्छानयनसूत्रम्मिश्रादुद्धृत्य पदं रूपोनेच्छाधनेन सैकेन । लब्धं प्रचयः शेषः सरूपपदभाजितः प्रभवः ॥ ३१७ ॥
अत्रोद्देशकः । आयुत्तरपदमिश्रं पञ्चाशद्धनमिहैव सन्दृष्टम् ।
गणितज्ञाचक्ष्व त्वं प्रभवोत्तरपदधनान्याशु ॥ ३१८ । सङ्कलितगतिध्रुवगतिभ्यां समानकालानयनसूत्रम्
ध्रुवगतिरादिविहानश्चयदलभक्तस्सरूपकः कालः । द्विगुणो मार्गस्तद्गतियोगहृतो योगकालस्स्यात् ॥ ३१९ ॥
अत्रोद्देशकः । कश्चिन्नरः प्रयाति त्रिभिरादा उत्तरैस्तथाष्टाभिः । नियतगतिरेकविंशतिरनयोः कः प्राप्तकालः स्यात् ॥ ३२० ॥
For Private and Personal Use Only