________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
108
गणितसारसङ्ग्रहः विषमबाणैस्सूणीरबाणपरिधिकरणसूत्रम्
परिणाहस्त्रिभिरधिको दलितो वर्गीकृतस्त्रिभिर्भक्तः । सैकश्शरास्तु परिघेरानयने तत्र विपरीतम् ॥ ३२८६ ॥
अत्रोद्देशकः । नव परिधिस्तु शराणां सङ्ख्या न ज्ञायते पुनस्तेषाम् । व्युत्तरदशबाणास्तत्परिणाहशरांश्च कथय मे गणक ॥ ३२९ ।। श्रेढीबद्धे इष्टकानयनसूत्रम् -- तरवर्गों रूपोनस्त्रिभिविभक्तस्तरेण सङ्गणितः । तरसङ्कलिते खेष्टप्रताडिते मिश्रतः सारम् ॥ ३३०३ ॥
अत्रोद्देशकः । पञ्चतरैकेनाग्रं व्यवघटिता गणितविन्मिश्रे । समचतुरश्रश्रेढी कतीष्टकास्स्युर्ममाचक्ष्व ॥ ३३१३ ॥ नन्द्यावर्ताकारं चतुस्तराः षष्टिसमघटिताः ।
सर्वेष्टकाः कति स्युः श्रेढीबई ममाचक्ष्व ।। ३३२६ ।। छन्दश्शास्त्रोक्तषट्प्रत्ययानां सूत्राणि ---
समदलविषमरवरूपं द्विगुणं वर्गीकृतं च पदमङ्ख्या । सङ्ख्या विषमा सैका दलतो गुरुरेव समदलतः ॥ ३३३३ ॥ स्यालघुरेवं क्रमशः प्रस्तारोऽयं विनिर्दिष्टः । नष्टाङ्काधै लघुरथ तत्कदले गुरुः पुनः पुनः स्थानम् ॥ ३३४ ॥ रूपादिगुणोत्तरतस्तद्दिष्टे लाङ्कसंयुतिः सैका । एकाद्यकोत्तरतः पदमूर्ध्वाधर्यतः क्रमोत्क्रमशः ॥ ३३५ ॥
For Private and Personal Use Only