________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
102
गणितसारसङ्ग्रहः
विपरीतकरणानयनसूत्रम्--
प्रत्युत्पन्ने भागो भागे गुणितोऽधिके पुनश्शोध्यः । वर्गे मूलं मूले वर्गों विपरीतकरणमिदम् ॥ २८६ ॥
अत्रोदेशकः । सप्तहृते को राशिस्त्रिगुणो वर्गीकृतः शरैर्युक्तः । त्रिगुणितपञ्चांशहतस्त्वर्धितमूलं च पञ्चरूपाणि ॥ २८७ ॥ साधारणशरपरिध्यानयनसूत्रम्--
शरपरिधित्रिकमिलनं वर्गितमेतत्पुनस्त्रिभिस्सहितम् । द्वादशहतेऽपि लब्धं शरसङ्ख्या स्यात्कलापकाविष्टा ॥२८८ ॥
अत्रोद्देशकः । परिधिशरा अष्टादश तूणीरस्थाः शराः के स्युः । गणितज्ञ यदि विचित्रे कुट्ठीकारे श्रमोऽस्ति ते कथय ॥ २८९ ।। इति मिश्रकव्यवहारे विचित्रकुट्टीकारः समाप्तः ।
श्रेढीबद्धसङ्कलितम् । इतः परं मिश्रकगणिते श्रेढीबद्धसङ्कलितं व्याख्यास्यामः । हीनाधिकचयसङ्कलितधनानयनसूत्रम्
व्येकार्ध पदोनाधिकचयघातोनान्वितः पुनः प्रभवः । गच्छाभ्यस्तो हीनाधिकचयसमुदायसङ्कलितम् ॥ २९० ॥
अत्रोद्देशकः । चतुरुत्तरदश चादिर्हानचयस्त्रीणि पञ्च गच्छः किम् । द्वावादिईद्धिचयः षट् पदमष्टौ धनं भवेदत्र ॥ २९१ ॥
For Private and Personal Use Only