________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
103
मिश्रकव्यवहारः. भधिकहीनोत्तरसङ्कलितधने आधुत्तरानयनसूत्रम्गच्छविभक्ते गणिते रूपोनपदार्धगुणितचयहीने । आदिः पदहतवित्तं चाचूनं व्येक पददलहतः प्रचयः ॥ २९२ ॥
अत्रोद्देशकः । चत्वारिंशद्गणितं गच्छः पञ्च त्रयः प्रचयः ।
न ज्ञायतेऽधुनादिः प्रभवो दिः प्रचयमाचक्ष्व ।। २९३ ॥ श्रेढीसङ्कलितगच्छानयनसूत्रम् ---
आदिविहीनो लाभः प्रचयार्धहतस्स एव रूपयुतः । गच्छो लाभेन गुणो गच्छस्सङ्कलितधनं च सम्भवति ॥ २९४ ।।
अत्रोद्देशकः । त्रीण्युत्तरमादिदें वनिताभिश्चोत्पलानि भक्तानि ।
एकस्या भागोऽष्टौ कति वनिताः कति च कुसुमानि ॥ २९५ ॥ वर्गसङ्कलितानयनसूत्रम्
सैकेष्टकतिर्दिना सैकेष्टोनेष्टदलगुणिता । कृतिघनचितिसङ्घातस्त्रिकभक्तो वर्गसङ्कलितम् ॥ २९६ ॥
अत्रोदेशकः। अष्टाष्टादशविंशतिषष्टयेकाशीतिषट्कृतीनां च ।
कृतिघनचितिसङ्कलितं वर्गचितिं चाशु मे कथय ॥ २९७ ॥ इष्टाद्युत्तरपदवर्गसङ्कलितधनानयनसूत्रम्द्विगुणैकोनपदोत्तरकृतिहतिषष्ठांशमुखचयहतयुतिः । व्येकपदन्ना मुरवकृतिसहिता पदताडितेष्टकृतिचितिका॥ २९८ ॥
For Private and Personal Use Only