SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 100 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्ग्रहः जयति हि पक्षी ते मे देहि स्वर्णं ह्यविजयोऽसि दद्यां ते । तद्द्वित्र्यंशकमद्येत्यपरं च पुनः स संसृत्य ॥ २७१३ ॥ त्रिचतुर्थं प्रतिवाञ्छत्युभयस्माद्वादशैव लाभः स्यात् । तत्कुकुटिककरस्थं ब्रूहि त्वं गणकमुखतिलक ॥ २७२ ॥ राशिलब्धच्छेद मिश्रविभागसूत्रम्- मिश्रादूनितसङ्ख्या छेद: सैकेन तेन शेषस्य । भागं हत्वा लब्धं लाभोनितशेष एव राशिः स्यात् ॥ २७३३ ।। अत्रोद्देशकः । केनापि किमपि भक्तं सच्छेदो राशिमिश्रितो लाभः । पञ्चाशत्रिभिरधिका तच्छेदः किं भवेल्लब्धम् ॥ २७४ ॥ इष्टसङ्ख्यायोज्यत्याज्यवर्गमूलराश्यानयनसूत्रम्- योज्यत्याज्ययुतिः सरूपविषमाग्रन्नार्धिता वर्णिता व्यग्रा बन्धहृता च रूपसहिता त्याज्यैक्यशेषाग्रयोः । शेषैक्यार्धयुतोनिता फलमिदं राशिभवेद्वान्छयोस्त्याज्यात्याज्यमहत्त्वयोरथ कृतेर्मूलं ददात्येव सः ॥ २७५ ॥ अत्रोद्देशकः । राशिः कश्चिद्दशभिः संयुक्तः सप्तदशभिरपि हीनः । मूलं ददाति शुद्धं तं राशि स्यान्ममाशु वद गणक || २७६३ ।। राशिरताभरूनो यः सोऽष्टादशभिरन्वितः कश्चित् । मूलं यच्छति शुद्धं विगणय्याचक्ष्व तं गणक || २७७३ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy