________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
98
गणितसारसङ्ग्रहः द्विगुणोऽभववितीयः प्रथमं चत्वारि षट् तृतीयमगात् । त्रिगुणं तृतीथपुरुषः प्रथमं पञ्च द्वितीयं च ॥ २५४३ ।। षट् प्रार्थ्याभूत्पञ्चकगुणः स्वहस्तस्थितानि कानि स्युः । कथयाशु चित्रकुट्टीमिश्रं जानासि यदि गणक ॥ २५५३ ।। पुरुषास्त्रयोऽतिकुशलाश्चान्योन्यं याचितं धनं प्रथमः । स द्वादश द्वितीयं त्रयोदश प्रार्थ्य तत्रिगुणः ॥२५६ ।। प्रथमं दश त्रयोदश तृतीयमभ्यर्थ्य च द्वितीयोऽभूत् । पञ्चगुणितो द्वितीयं द्वादश दश याचयित्वाद्यम् ॥ २५७ ॥ सप्तगुणितस्तृतीयोऽभवन्नरो वाञ्छितानि लब्धानि । कथय सखे विगणय्य च तेषां हस्तस्थितानि कानि स्युः ॥ २५॥ अन्त्यस्योपान्त्यतुल्यधनं दत्वा समधनानयनसूत्रम्वाञ्छाभक्तं रूपं स उपान्त्यगुणः सरूपसंयुक्तः । शेषाणां गुणकारः सैकोऽन्त्यः करणमेतत्स्यात् ।। २५९ ॥
अत्रोद्देशकः । वैश्यात्मजास्त्रयस्ते मार्गगता ज्येष्ठमध्यमकनिष्ठाः । खधने ज्येष्ठो मध्यमधनमात्र मध्यमाय ददौ ॥ २६०३ ।। स तु मध्यमो जघन्यजधनमात्रं यच्छति स्मास्य । समधनिकाः स्युस्तेषां हस्तगतं ब्रूहि गणक संचिन्त्य ।। २६१३॥ वैश्यात्मजाश्च पञ्च ज्येष्ठादनुजः स्वकीयधनमात्रम् । लेभे सर्वेऽप्येवं समवित्ताः किं तु हस्तगतम् ॥ २६२ ॥
For Private and Personal Use Only