________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
हस्तस्थधनादन्यस्त्रिगुणं किं करगतं च पोटलकम् । २४४३ ॥ मार्गे नरैश्चतुर्भिः पोट्टलकं दृष्टमाह तत्राद्यः ।। पोट्टलकामदं लब्ध्वा ह्यष्टगुणोऽहं भविष्यामि ॥ २४५ ॥ स्वकरस्थधनेनान्यो नवसङ्गणितं च शेषधनात् । दशगुणधनवानपरस्त्वकादशगुणितधनवान् स्यात् । पोट्टलकं किं करगतधनं कियद्बाहि गणकाशु ॥ २४७ ।। मार्गे नरैः पोट्टलकं चतुभिर्दष्टं हि तस्यैव तदा बभूवुः । पञ्चांशपादार्धतृतीयभागास्तवित्रिपञ्चनचतुर्गुणा'थ ॥ २४८ ॥ मार्गे त्रिभिर्वणिग्भिः पोट्टलकं दृष्टमाह तत्राद्यः । यद्यस्य चतुर्भागं लभेऽहमित्याह स युवयोर्डिगुणः ॥ २४९ ॥ आह त्रिभागमपरः स्वहस्तधनसहितमेव च त्रिगुणः । अस्यार्धं प्राप्याहं तृतीयपुरुषश्चतुर्नधनवान् स्याम् । आचक्ष्व गणक शीघ्रं किं हस्तगतं च पोट्टलकम् ॥२५० ॥ याचितरूपैरिष्टगुणकहस्तगतानयनस्य सूत्रम्याचितरूपैक्यानि स्वसैकगुणवर्धितानि तैः प्राग्वत् । हस्तगताना नीत्वा चेष्टगुणघ्नेति सूत्रेण ॥ २५१६ ॥ सदृशच्छेदं कृत्वा सैकेष्टगुणाहृतेष्टगुणयुत्या । रूपोनितया भक्तान् तानेव करस्थितान् विजानीयात् ॥ २५२३ ।।
अत्रोद्देशकः । वैश्यस्त्रिभिः परस्परहस्तगतं याचितं धनं प्रथमः । चत्वार्यथ द्वितीयं पञ्च तृतीयं नरं प्रार्थ्य ॥ २५३ ॥
IM and B read स्युः ; and it is obviously inappropriate.
For Private and Personal Use Only