________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसग्रहः
अत्रोद्देशकः । मार्गे त्रिभिर्वणिग्भिः पोहलकं दृष्टमाह तत्रैकः । पोलकमिदं प्राप्य द्विगुणधनोऽहं भविष्यामि ॥ २३६ ॥ हस्तगताभ्यां युवयास्त्रिगुणधनोऽहं द्वितीय आहोत ।
पञ्चगुणोऽहं त्वपरः पोट्टलहस्तस्थमानं किम् ॥ २३७॥ सर्वतुल्यगुणकपोलकानयनहस्तगतानयनसूत्रम्--
व्येकपदन्नव्येकगुणेष्टांशवधोनितांशयुतिगुणघातः ! हस्तगताः स्युर्भवति हि पूर्ववदिष्टांशभाजितं पोट्टलकम् ॥२३८ ॥
अत्रोद्देशकः । वैश्यैः पञ्चभिरेकं पोट्टलकं दृष्टमाह चैकैकः । पोट्टलकषष्ठसप्तमनवमाष्टमदशमभागमाप्त्वैव ॥ २३९ ॥ स्वस्वकरस्थेन सह त्रिगुणं त्रिगुणं च शेषाणाम् ।
गणक त्वं मे शीघ्रं वद हस्तगतं च पोट्टलकम् ।। २४० ॥ इष्टांशेष्टगुणपोट्टलकानयनसूत्रम
इष्टगुणन्नान्यांशाः सेष्टांशाः सैकनिजगुणहता युक्ताः । ड्यूनपद ष्टांशन्यूनाः सैकेष्टगुणहता हस्तगताः ॥२४१ ॥
अत्रोद्देशकः । द्वाभ्यां पथि पथिकाभ्यां पोट्टलकं दृष्टमाह तत्रैकः । अस्यार्धं सम्प्राप्य हिगुणधनोऽहं भविष्यामि ॥ २४२ ॥ अपरस्त्र्यंशद्वितयं त्रिगुणधनस्त्वत्करस्थधनात् । मत्करधनेन सहितं हस्तगतं किं च पोट्टलकम् ॥ २४३ ॥ दृष्टं पथि पथिकाभ्यां पोट्टलकं तद्गृहीत्वा च । द्विगुणमभूदाद्यस्तु स्वकरस्थधनेन चान्यस्य ॥
For Private and Personal Use Only