________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
94
गणितसारसङ्ग्रहः प्रस्तारयोगभेदस्य सूत्रम--
एकाद्यकोत्तरतः पदमूर्ध्वाधर्यतः क्रमोत्क्रमशः। स्थाप्य प्रतिलोमन्नं प्रतिलोमन्नेन भाजितं सारम् ।। २१८ ॥
अत्रोद्देशकः । वर्णाश्चापि रसानां कषायतिक्ताम्लकटुकलवणानाम् । मधुररसेन युतानां भेदान् कथयाधुना गणक ।। २१९॥ वजेन्द्रनीलमरकतविद्रुममुक्ताफलैस्तु रचितमालायाः । कति भेदा युतिभेदात् कथय सरवे सम्यगाशु त्वम् ॥ २२०॥ केतक्यशोकचम्पकनीलोत्पलकुसुमरचितमालायाः ।
कति भेदा यतिभेदात्कथय सखे गणिततत्वज्ञ ।। २२१ ॥ ज्ञाताज्ञातला भैर्मूलानयनसूत्रम्--- ... लाभोनामश्रराशेः प्रक्षेपकतः फलानि संसाध्य । तेन हृतं तल्लब्धं मूल्यं त्वज्ञातपुरुषस्य ।। २२२ ॥
अत्रोद्देशकः । समये केचिद्वणिजस्त्रयः क्रय विक्रयं च कुर्वीरन् । प्रथमस्य षट् पुराणा अष्टौ मूल्यं द्वितीयस्य ॥ २२३ ॥ न ज्ञायते तृतीयस्य व्याप्तिस्तैर्नरैस्तु षण्णवतिः । अज्ञातस्यैव फलं चत्वारिंशद्धि तेनाप्तम् ।। २२४ ॥ कस्तस्य प्रक्षेपो वणिजोरुभयोर्भवेच्च को लाभः ।
प्रगणय्याचक्ष्व सरवे प्रक्षेपं यदि विजानासि ॥ २२५ ॥ भाटकानयनसूत्रम्
भरभृतिगतगम्यहात त्यक्त्वा योजनदलनभारकृतेः । तन्मूलोनं गम्पच्छिन्नं गन्तव्यभाजितं सारम् ॥ २२६ ।।
IM and B add त here ; metrically it is faulty.
For Private and Personal Use Only