SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः स्वदृढक्षयेण वर्णी प्रकल्पयेत्प्राग्वदेव यथा। एवं तद्द्वययोरप्युमयं साम्यं फलं भवेद्यदि चेत् ॥ २१०॥ प्राक्कल्पनेष्टवर्णो गुलिकाभ्यां निश्चयौ भवतः । नो चेत्प्रथमस्य तदा किञ्चिन्न्यूनाधिको क्षयौ कृत्वा ॥२११ ॥ तत्क्षयपूर्वक्षययोरन्तरिते शेषमत्र संस्थाप्य। त्रैराशिकविधिलब्धं वर्णों तेनोनिताधिको स्पष्टौ॥ २१२ ॥ अत्रोद्देशकः । स्वर्णपरीक्षकवणिजौ परस्परं याचितौ ततः प्रथमः ।। अर्धं प्रादात् तामपि गुलिकां स्वसुवर्ण आयोज्य ॥ २१३ ॥ वर्णदशकं करोमीत्यपरोऽवादीत् त्रिभागमात्रतया। लब्धे तथैव पूर्ण द्वादशवर्णं करोमि गुलिकाभ्याम्॥ २१४ ।। उभयोः सुवर्णमाने वर्णी सञ्चिन्त्य गणिततत्वज्ञ । सौवर्णगणितकुशलं यदि तेऽस्ति निगद्यतामाशु ॥ २१५।। इति मिश्रकव्यवहारे सुवर्णकुट्टीकारः समाप्तः ।। - विचित्रकुट्टीकारः । इतः परं मिश्रकव्यवहार विचित्रकुट्टीकारं व्याख्यास्यामः । सत्यानृतसूत्रम् पुरुषाः सैकेष्टगुणा द्विगुणेष्टोना भवन्त्यसत्यानि । पुरुषकृतिस्तैरूना सत्यानि भवन्ति वचनानि ॥ २१६ ॥ अत्रोद्देशकः। कामुकपुरुषाः पञ्च हि वेश्यायाश्च प्रियास्त्रयस्तत्र । प्रत्येकं सा ब्रूते त्वमिष्ट इति कानि सत्यानि ॥ २१७ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy