________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
92
गणितसारसङ्ग्रहः एतेषां वर्णानां पृथक् पृथक वर्णमानं किम् ॥ २०१ ॥ विनिमयगुणवर्णकनकलाभानयनसूत्रम्
वर्णन्नवर्णयुतिहृतगुणयुतिमूलक्षयनरूपोनेन । आप्तं लब्धं शोध्यं मूलधनाच्छेषवित्तं स्यात् ॥ २०२ ॥ तल्लब्धमूलयोगाद्विनिमयगुणयोगभाजितं लब्धम्। प्रक्षेपकेण गुणितं विनिमयगुणवर्णकनकं स्यात् ।। २०३ ।।
अत्रोद्देशकः। कश्चिद्वणिक् फलार्थी षोडशवर्णं शतद्वयं कनकम् । यत्किञ्चिद्विनिमयकृतमेकाद्यं द्विगुणितं यथा क्रमशः।। २०४।। द्वादशवसुनवदशकक्षयकं लाभो द्विरग्रशतम् ।
शेषं किं स्याद्विनिमयकांस्तेषां चापि मे कथय ।। २०५ । दृश्यसुवर्णविनिमयसुवर्णैर्मूलानयनसूत्रम्
विनिमयवणेनाप्तं स्वांशं स्वेष्टक्षयनसंमिश्रात् । अंशैक्योनेनाप्तं दृश्यं फलमत्र भवति मूलधनम् ॥ २०६ ॥
अत्रोद्देशकः । वणिजः कंचित् षोडशवर्णकसौवर्णगुलकमाहृत्य । त्रिचतुःपञ्चमभागान् क्रमेण तस्यैव विनिमयं कृत्वा ॥ २०७।। द्वादशदशनववर्णैः संयुज्य च पूर्वशेषण ।
मूलेन विना दृष्टं स्वर्णसहस्रं तु किं मूलम् ॥ २०८ ॥ इष्टांशदानेन इष्टवर्णानयनस्य तदिष्टांशकयोः सुवर्णानयनस्य च सूत्रम्
अंशाप्तकं व्यस्तं क्षिप्त्वेष्टघ्नं भवेत् सुवर्णमयी। सा गुलिका तस्या आपि परस्परांशाप्तकनकस्य ॥२०९ ॥
For Private and Personal Use Only