________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
91
अत्रोद्देशकः। वैश्याः स्वर्णशलाकाश्रिकीर्षवः स्वर्णवर्णज्ञाः। चक्रुः स्वर्णशलाका द्वादशवर्णं तदाद्यस्य ॥ १९३॥ चतुरुत्तरदशवर्णं षोडशवर्णं तृतीयस्य । कनकं चास्ति प्रथमस्यैकोनं च द्वितीयस्य ।। १९४ ॥ अर्धार्धन्यूनमथ तृतीयपुरुषस्य पादोनम् । परवर्णादारभ्य प्रथमस्यैकान्त्यमेव च द्यन्त्यम् ॥ १९५॥ ध्यन्त्यं तृतीयवणिजः सर्वशलाकास्तु माषमिताः । शुद्धं कनकं किं स्यात् प्रपूरणी का पृथक् पृथक् त्वं मे ।
आचक्ष्व गणक शीघ्रं सुवर्णगणितं हि यदि वेत्सि ।।१९६६॥ विनिमयवर्णसुवर्णानयनसूत्रम् ---
क्रयगुणसुवर्णविनिमयवर्णेष्टनान्तरं पुनः स्थाप्यम् । व्यस्तं भवति हि विनिमयवर्णान्तरहृत्फलं कनक-। १९७६॥
अत्रोद्देशकः। षोडशवर्णं कनकं सप्तशतं विनिमयं कृतं लभते।
द्वादशदशवर्णाभ्यां साष्टसहस्त्रं तु कनकं किम् ॥ १९८६।। बहुपदविनिमयसुवर्णकरणसूत्रम्
वर्णनकनकमिष्टस्वर्णेनाप्तं दृढक्षयो भवति। प्राग्वत्प्रप्ताध्य लब्धं विनिमयबहुपदसुवर्णानाम् ॥ १९९६ ।।
अत्रोद्देशकः। वर्णचतुर्दशकनकं शतत्रयं विनिमयं प्रकुर्वन्तः । वर्णेदशदशवसुनगैश्च शतपञ्चकं स्वर्णम् । .
9-A
For Private and Personal Use Only