________________
Shri Mahavir Jain Aradhana Kendra
90
www.kobatirth.org
गणितसारसङ्ग्रहः
अत्रोद्देशकः ।
वर्णाश्शरर्तुनगवसुमृडविश्वे नव च पक्कवर्णं हि । कनकानां षष्टिश्चेत् पृथक् पृथक् कनकमा किं स्यात् ॥ १८६॥
इयनष्टवर्णानयनसूत्रम् --
Acharya Shri Kailassagarsuri Gyanmandir
स्वर्णाभ्यां हृतरूपे सुवर्णवर्णाहते द्विष्ठे ।
स्वस्वतकेन च हीनयुते व्यस्ततो हि वर्णफलम् ॥ १८७॥ अत्रोद्देशकः ।
षोडशदशकनकाभ्यां वर्णं न ज्ञायते' पक्वम् । वर्णं चैकादश चेद्वर्णौ तत्कनकयोर्भवेतां कौ ॥ १८८ ॥ पुनरपि नष्टवर्णानयनसूत्रम् -
एकस्य क्षयमिष्टं प्रकल्प्य शेषं प्रसाधयेत् प्राग्वत् । बहुकनकानामिष्टं व्येकपदानां ततः प्राग्वत् ॥ १८९ ॥ अत्रोद्देशकः ।
द्वादशचतुर्दशानां स्वर्णाना समरसीकृते जातम् । वर्णानां दशकं स्यात् तद्वर्णो ब्रूहि सश्चिन्त्य ॥ १९० ॥
अपरार्धस्योदाहरणम् ।
सप्तनवशिखिदशानां कनकानां संयुते पक्वम् । द्वादशवर्णं जातं किं ब्रूहि पृथक् पृथग्वर्णम् ॥ १९९ ॥
परीक्षणशलाकानयनसूत्रम्
परमक्षयाप्तवर्णाः सर्वशलाकाः पृथक् पृथग्योज्याः । स्वर्णफलं तच्छोध्यं शलाकपिण्डात् प्रपूणिका ॥ १९२॥
Badds here यते ।
For Private and Personal Use Only