SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः 87 अत्रौद्देशकः। प्रथमस्य शक्रनीलाः षट् सप्त च मरकता द्वितीयस्य। वज्राण्यपरस्याष्टावेकैकार्घ प्रदाय समाः ॥ १६४ ॥ प्रथमस्य शक्रनीलाः षोडश दश मरकता द्वितीयस्य । वज्रास्तृतीयपुरुषस्याष्टौ द्वौ तत्र दत्वैव ।। १६५ ॥ तेषेकैकोऽन्याभ्यां समधनतां यान्ति ते त्रयः पुरुषाः । तच्छकनीलमरकतवज्राणां किंविधा अर्घाः ॥ १६६ ॥ क्रयविक्रयलाभैः मूलानयनसूत्रम्अन्योऽन्यमूल्यगुणिते विक्रयभक्ते क्रयं यदपलब्धम् । तेनैकोनेन हृतो लाभः पूर्वाद्धृतं मूल्यम् ॥ १६७ ।। अत्रोद्देशकः । त्रिभिः क्रीणाति सप्तैव विक्रीणाति च पञ्चभिः । नव प्रस्थान् वणिक् किं स्याल्लाभो द्वासप्ततिर्धनम् ॥ १६८ ॥ इति मिश्रकव्यवहारे सकलकुटीकारः समाप्तः ॥ सुवर्णकुटीकारः ॥ इतः परं सुवर्णगणितरूपकुट्टीकारं व्याख्यास्यामः । समस्तेष्टवगैरेकीकरणेन सङ्करवर्णानयनसूत्रम् कनकक्षयसंवर्गों मिश्रस्वर्णाहतः क्षयो ज्ञेयः । परवर्णप्रविमत्तं सुवर्णगुणितं फलं हेनः ॥ १६९ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy