SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 गणितसारसग्रहः कालेन व्यत्ययार्घस्स्यात्सषोडशशतं पणाः । तयोरर्घफले ब्रूहि त्वं षडष्ट पृथक् पृथक् ॥ १५ ॥ सूर्यरथाश्वेष्टयोगयोजनानयनसूत्रम् अरिवलाप्तारिवलयाजनसङ्ख्यापर्याययोजनानि स्युः । तानीष्टयोगसङ्ख्यानिनान्येकैकगमनमानानि ॥ १५ ॥ अत्रोद्देशकः। रविरथतुरगास्सप्त हि चत्वारोऽश्वा वहन्ति धूर्युक्ताः । योजनसप्ततिगतयः के व्यूढाः के चतुर्योगाः ॥ १५८ ॥ सर्वधनेष्टहीनशेषपिण्डात् स्वस्वहस्तगतधनानयनसूत्रम्रूपोननरैविभजेत् पिण्डीकृतभाण्डसारमुपलब्धम् । सर्वधनं स्यात्तस्मादुक्तविहीनं तु हस्तगतम् ॥ १५९ ॥ अत्रोद्देशकः । वणिजस्ते चत्वारः पृथक् पृथक् शौल्किकेन परिपृष्टाः । किं भाण्डसारमिति खलु तत्राहैको वणिकच्छ्रेष्ठः ॥ १६० ॥ आत्मधनं विनिगृह्य द्वाविंशतिरिति ततः परोऽवोचत् । त्रिभिरुत्तरा तु विंशतिरथ चतुरधिकैव विंशतिस्तुर्यः !! १६१ ॥ सप्तोत्तरविंशतिरिति समानसारा निगृह्य सर्वेऽपि । ऊचुः किं ब्रूहि सरवे पृथक् पृथग्भाण्डसारं मे ॥ १६२ ।। अन्योऽन्यमिष्टरत्नसङ्खयां दत्त्वा समधनानयनसूत्रम्--- पुरुषसमासेन गुणं दातव्यं तद्विशोध्य पण्यभ्यः । शेषपरस्परगुणितं खं खं हित्वा मणेर्मूल्यम् ॥ १६३ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy