________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
84
गणितसारसङ्ग्रहः
अत्रोद्देशकः । नवानां मातुलुङ्गानां कपित्थानां सुगन्धिनाम् । सप्तानां मूल्यसम्मिश्रं सप्तोत्तरशतं पुनः ॥ १४०३ ॥ सप्तानां मातुलुङ्गानां कपित्थानां सुगन्धिनाम् । नवानां मूल्यसम्मिश्रमेकोत्तरशतं पुनः ॥ १४ १३ ॥ मूल्ये ते वद मे शीघ्रं मातुलुङ्गकपित्थयोः । अनयोर्गणक त्वं मे कृत्वा सम्यक् पृथक् पृथक् ॥ १४२ ॥ बहुराशिमिश्रतन्मूल्यमिश्रविभागसूत्रम्इष्टप्नफलैरूनितलाभादिष्टाप्तफलमसकृत् । तैरूनितफलपिण्डसच्छेदा गुणयुतास्तदर्घास्स्युः ॥ १४३ ॥
___ अत्रोद्देशकः । अथ मातुलुङ्गकदलीकपित्थदाडिमफलानि मिश्राणि । प्रथमस्य सैकविंशतिरथ द्विरमा द्वितीयस्य ॥ १४४ ॥ विंशतिरथ सुरभीणि च पुनस्त्रयोविंशतिस्तृतीयस्य । तेषां मूल्यसमासस्त्रिसप्ततिः किं फलं कोऽर्घः ॥ १४५॥ जघन्योनमिलितराश्यानयनसूत्रम-- पण्यहृताल्पफलोनैश्छिन्द्यादल्पनमूल्यहीनेष्टम् । कृत्वा तावत्खण्डं तदूनमूल्यं जघन्यपण्यं स्यात् ॥ १४६ ॥
अत्रोदेशकः । द्वाभ्यां त्रयो मयूरास्त्रिभिश्च पारावताश्च चत्वारः । हंसाः पञ्च चतुर्भिः पञ्चभिरथ सारसाषट् च ॥ १४७ ॥
For Private and Personal Use Only