________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिश्रकव्यवहारः
शेषे हृते सप्ततिभिस्त्रिमिश्रनरेर्विशुद्धं कथयैकसङ्ख्याम् ॥ ११९३ ।।
Acharya Shri Kailassagarsuri Gyanmandir
81
दृष्टास्सप्तत्रिंशत्कपित्थफलराशयो वने पथिकैः । सप्तदशापोह्य हृते व्येकाशीत्यांशकप्रमाणं किम् || १२०३ ॥
For Private and Personal Use Only
दृष्ट्वा राशिमपहाय च सप्त पश्चाक्तेऽष्टभिः पुनरपि प्रविहाय तस्मात् । त्रीणि त्रयोदशभिरुद्द लिते विशुद्धः पान्थैर्वने गणक मे कथयैकराशिम् ॥ १२१३ ॥ त्रिभिश्चतुर्भिः पञ्चभिरेकः कपित्थफलराशिः । भक्तो रूपाग्रस्तत्प्रमाणमाचक्ष्व गणितज्ञ || १२२३ ॥ द्वाभ्यामेकस्त्रिभिर्धौ च चतुर्भिर्भाजिते त्रयः । चत्वारि पञ्चभिश्शेषः को राशिर्वद मे प्रिय ।। १२३३ ॥ द्वाभ्यामेकस्त्रिभिशुद्धश्वतुर्भिर्भाजिते त्रयः ।
चत्वारि पश्चभिश्शेषः को राशिर्वद मे प्रिय ॥ १२४ ॥ द्वाभ्यां निर एकाग्रस्त्रिभिर्नाग्रो विभाजितः । चतुर्भिः पञ्चभिर्भको रूपाम्रो राशिरेष कः ॥ १२९ ॥ द्वाभ्यामेकस्त्रिभिश्शुद्ध चतुर्भिर्भाजिते त्रयः । निरग्रः पञ्चभिर्भक्तः को राशिः कथयाधुना ॥ १२६ ॥ दृष्टा जम्बूफलानां पथि पथिकजनै राशयस्तत्र राशी sts तौ नवानां त्रय इति पुनरेकादशानां विभक्ताः । पञ्चाग्रास्ते यतीनां चतुरधिकतराः पञ्च ते सप्तकानां कुट्टीकारार्थविन्मे कथय गणक सञ्चिन्त्य राशिप्रमाणम् ।। १२७३॥