________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असर
,
गणितसारसङ्ग्रहः
वल्लिकाकुट्ठीकारः ॥ इतः परं वल्लिकाकुट्टीकारगणितं व्याख्यास्यामः । कुट्ठीकारे वल्लिकागणितन्यायसूत्रम्
छित्वा छेदेन राशि प्रथमफलमपोह्याप्तमन्योन्यभक्तं स्थाप्योर्ध्वाधर्यतोऽधो मतिगुणमयुजाल्पेऽवशिष्टे धनर्णम् । छित्वाधः स्वोपरिनोपरियुतहरभागोऽधिकाग्रस्य हारं छित्वा छेदेन साग्रान्तरफलमधिकायान्वितं हारघातम् ॥ ११५३ ॥
अत्रोद्देशकः । जम्बूजम्बीररम्भाक्रमुकपनसरवर्जूरहिन्तालतालीपुन्नागाम्राद्यनेकद्रुमकुसुमफलैर्नम्रशारवाधिरूढम् । भ्राम्यगृङ्गाब्जवापीशुकपिककुलनानाध्वनिव्याप्तदिक्कं पान्थाः श्रान्ता वनान्तं श्रमनुदममलं ते प्रविष्टाः प्रहृष्टाः ।। ११६॥
राशित्रिषष्टिः कदलीफलानां सम्पीड्य संक्षिप्य च सप्तभिस्तैः । पान्थेस्त्रयोविंशतिभिर्विशुद्धा राशेस्त्वमेकस्य वद प्रमाणम् ॥ ११७३ ॥ राशीन् पुनर्वादश दाडिमानां समस्य संक्षिप्य च पञ्चभिस्तैः । पान्थैर्नरैर्विंशतिभिर्निरकभक्तांस्तथैकस्य वद प्रमाणम् ॥ ११८ ।। दृष्टाम्रराशीन् पथिको यथैकत्रिंशत्समूहं कुरुते विहीनम् ।
For Private and Personal Use Only