________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्गहः प्रथमादध्यर्धगुणात् त्रिगुणाद्रूपोत्तराद्विभाज्यन्ते । साष्टा सप्ततिरोभिश्चतुर्भिराप्तांशकान् ब्रूहि ॥ ९९६ ॥ प्रथमादध्यर्धगुणाः पश्चार्धगुणोत्तराणि रूपाणि । पञ्चानां पञ्चाशत्सैका चरणत्रयाभ्यधिका ॥ १० ॥ प्रथमात्पश्चार्धगुणाश्चतुर्गुणोत्तरविहीनभागेन । भक्तं नरैश्चतुर्भिः पञ्चदशोनं शतचतुष्कम् ।। १०१ ।। समधनाओनयनतज्ज्येष्ठधनसङ्ख्यानयनसूत्रम्--- ज्येष्ठधनं सैकं स्यात् स्वविक्रयेऽन्त्यार्पगुणमपैकं तत् । क्रयणे ज्येष्ठानयनं समानयेत् करणविपरीतात् ॥ १०२ ।।
___ अत्रोद्देशकः । हावष्टौ षट्रिशन्मूलं नृणां षडेव चरमार्घः । एकाधैण क्रीत्वा विक्रीय च समधना जाताः ॥ १०३३ ॥ साधैंकमर्धमर्धद्वयं च सगृह्य ते त्रयः पुरुषाः । क्रयविक्रयौ च कृत्वा षडिः पश्चार्धात्समधना जाताः ॥ १० ॥ चत्वारिंशत् सैका समधनसङ्ख्या षडेव चरमार्थः । आचक्ष्व गणक शीघ्र ज्येष्ठधनं किं च कानि मूलानि ॥ १०५॥ समधनसङ्ख्या पञ्चत्रिंशद्भवन्ति यत्र दीनाराः । चत्वारश्चरमा? ज्येष्ठधनं किं च गणक कथय त्वम्॥१० ॥ चरमार्थभिन्नजाती समधना_नयनसूत्रम्तुख्यापच्छेदधनान्त्यार्घाभ्यां विक्रयक्रया! प्राग्वत् । छेदच्छेदकृतिनावनुपातात् समधनानि भिन्नेऽन्त्यापें ॥ १०॥
For Private and Personal Use Only