________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
__77
अत्रोद्देशकः । द्वाभ्यां त्रीणि त्रिभिः पञ्च पञ्चभिस्सप्त मानकैः । दाडिमाम्रकपित्थानां फलानि गणितार्थवित् ॥ ९०३ ॥ कपित्थात् त्रिगुणं ह्यानं दाडिमं षड्गुणं भवेत् । क्रीत्वानय सरवे शीघ्रं त्वं षट्सप्ततिभिः पणैः ॥ ९१३ ॥ दध्याज्यक्षीरघर्जिनबिम्बस्याभिषेचनं कृतवान् । जिनपुरुषो द्वासप्ततिपलैस्त्रयः पूरिताः कलशाः ।। ९२३ ॥ द्वात्रिंशत्प्रथमघटे पुनश्चतुर्विंशतिदितीयघटे । षोडश तृतीयकलशे पृथक् पृथक् कथय मे कृत्वा ॥ ९३३ ।। तेषां दधिघृतपयसां ततश्चतुर्विंशतिघृतस्य पलानि । षोडश पयःपलानि द्वात्रिंशद् दधिपलानीह ॥ ९४३ ॥ उत्तिस्त्रयः पुराणाः पुंसश्वारोहकस्य तत्रापि । सर्वेऽपि पञ्चषष्टिः केचिद्भगना धनं तेषाम् ॥ ९५३ ॥ सन्निहितानां दत्तं लब्धं पुंसा दशैव चैकस्य । के सन्निहिता भनाः के मम सञ्चिन्त्य कथय त्वम ॥ ९६ ॥ इष्टरूपाधिकहीनप्रक्षेपककरणसूत्रम्--- पिण्डोऽधिकरूपोनो हीनोत्तररूपसंयुतः शेषात् । प्रक्षेपककरणमतः कर्तव्यं तैर्युता हीनाः ॥ ९७ ॥
अत्रोद्देशकः ।
प्रथमस्यैकांशोऽतो द्विगुणद्विगुणोत्तराद्भजन्ति नराः। चत्वारोऽशः कस्स्यादेकस्य हि सप्तषष्टिरिह ॥ ९८॥
For Private and Personal Use Only