________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
76
गणितसारसङ्ग्रहः प्रथमस्यांशत्रितयं त्रिगुणोत्तरतश्च पञ्चभिर्भक्तम् । दीनाराणां त्रिशतं त्रिषष्टिसहितं क एकांशः ॥ ८१३ ॥ आदाय चाम्बुजानि प्रविश्य सच्छ्रावकोऽथ जिननिलयम् । पूजां चकार भक्त्या पूजाहेभ्यो जिनेन्द्रेभ्यः ॥ ८२३ ॥ वृषभाय चतुर्थांशं षष्ठांशं शिष्टपार्थाय । द्वादशमथ जिनपतये त्र्यंशं मुनिसुव्रताय ददौ ।। ८३ ॥ नष्टाष्टकर्मणे जगदिष्टायारिष्टनेमयेऽष्टांशम । षष्ठग्नचतुर्भागं भक्त्या जिनशान्तये प्रददौ ॥ ८४ ॥ कमलान्यशीतिमिश्राण्यायातान्यथ शतानि चत्वारि । कुसुमानां भागाख्यं कथय प्रक्षेपकाख्यकरणेन ॥ ८५३ ॥ चत्वारि शतानि सरवे युतान्यशीत्या नरैविभक्तानि । पञ्चभिराचक्ष्व त्वं द्वित्रिचतुःपञ्चषणितैः ॥ ८६ ।। इष्टगुणफलानयनसूत्रम्-- भक्तं शेषैर्मूलं गुणगुणितं तेन योजितं प्रक्षेपम् । तद्र्व्यं मूल्यनं क्षेपविभक्तं हि मूल्यं स्यात् ॥ ८७३ ॥ अस्मिन्नर्थे पुनरपि सूत्रम्फलगुणकारैर्हत्वा पणान् फलैरेव भागमादाय । प्रक्षेपके गुणास्स्युस्त्रैराशिकतः फलं वदेन्मतिमान् ।। ८८ ॥ अस्मिन्नर्थे पुनरपि सूत्रम्स्वफलहताः स्वगुणनाः पणास्तु तैर्भवति पूर्ववच्छेषः । इष्टफलं निर्दिष्टं त्रैराशिकसाधितं सम्यक् ॥ ८९ ॥
For Private and Personal Use Only