________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवचन्द्रसूरिविरचिता आवश्यक-सत्पुस्तकलेखन-जिनवन्दनाऽर्चनोधक्तः । शय्यादानादिरतः, समभूदिह वीहकः श्राद्धः ॥१२॥ तद्गुणगणानुयायी, श्रीवत्सस्तत्सुतः समुत्पन्नः । तद्वसतावधिवसता, रचितेयं स्तम्भतीर्थपुरे ॥१३॥ रस-युग-रुदै (११४६)ीतैविक्रम संवत्सरात् समाप्तेयम् । फाल्गुनसितपश्चम्यां, गुरुवारे प्रथमनक्षत्रे ॥१४॥ अणहिलपाटकनगरे, वृत्तिरियं शोधिता सुविद्वद्भिः । श्रीशीलभद्रप्रमुखैराचार्यैः शास्त्रतत्त्वज्ञैः ॥१५॥ साहाय्यमत्र विहितं, निजशिष्याशोकचन्द्रगणिनाम्ना । प्रथमपतिमालिखता, विश्रामविवर्जितेन भृशम् ॥१६॥ प्रत्यक्षरं निरूप्यास्या ग्रन्थमानं विनिश्चितम् ।
अनुष्टुभां सहस्राणि संपूर्णानि त्रयोदश ॥१७॥
अङ्कतोऽपि सहस्र १३००० ॥ उ ॥ शुभं भवतु ॥ A संज्ञकमूलशुद्धिप्रतिप्रशस्तिः --
पा[इमा]दैङ्गिकोऽयं पिककुलरसितो(तै)गितगायी वसन्तो,
हेमन्तो दन्तवीणापटुरथ शिशिरो वातविध्मातवंशः । श्रीमद्वीरस्य कीर्ति ना ... टुतरा(?) चन्द्रसूर्या (यौ) च सभ्यौ।
यावत् सङ्गीतमास्ते भुवि विजयतां पुस्तकस्तावदेषः॥१॥ राजहंसाविमौ यावत् क्रीडतः पृथुपुष्करे।
सस्तावदयं नन्यान्नतः . [ तीर्थकरादिमिः ] ... ॥२॥ B संज्ञकप्रतिप्रान्ते पुष्पिकेयम्
संवत् १५०९ कार्तिक सुद ७ भौमे । मं० वाछाकेन लिखितम् ॥ श्रीः ॥
श्रीखरतर सा० धन्ना मन्ना सा० भोजा माणगदेश्राद्धैलेखितेयं कथा । सासपुरवास्तव्य सा० मदा सा० माल्हणदे तयोः सुत ज-वना सा० भूचराभ्यां सिद्धान्तभक्त्या महाक्षेपेण .... विछोयपि भेयं (1) कल्पपुस्तिका द्रव्यन्ययेन ।
संज्ञकप्रतिप्रान्ते पुष्पिकेयम्--
संवत् १३३० श्रावणवदि ११ रखो लिखितपत्तननगरीय-बृहत्शालीयभाण्डागारस्थितताडपत्रीयपुस्तकाल्लिखितमिदं
For Private And Personal Use Only