________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१.
श्रीअज्ञातसूरिविरचिता
गतः । शिष्या आगता द्वारमपश्यन्तः शब्दं कुर्वन्तो नव्यद्वारेण गुरुणा प्रवेशिताः । शिष्यैः विज्ञप्तम्-कथमेतत् ! । गुरुभिः सर्वमिन्द्रस्वरूपं निवेदितम् ।
ततः श्रीकालिकाचार्याश्चिरं निर्मलं चारित्रं प्रतिपाल्य प्रान्तेऽनशन विधाय समाधिना देवलोकं प्राप्ताः । ततः श्रीकालिकाचार्या महाप्रभावकाः स्थावरा बभूवुः तेषां सम्बन्ध उक्तः ।
अथ प्रभाते साधुसामाचारी वक्ष्यते-सा वर्तमानयोगेनैवम्-एके दानं ददति, एके शीलं पालयन्ति, एके तपस्तपन्ति, एके भावनां भावयन्ति, स विधिचैत्यालयपूज्यभानश्रीशान्तिनाथशासनाधीश्वरश्रीवर्धमानतत्पट्टानुक्रमेण श्रीसुधर्मस्वामी तावद् यावद् युगप्रधानश्रीजिनचन्द्रसूरि-श्रीजिनसिंहसूरीणां प्रसादः, तेषामाज्ञया च श्रीसंघः प्रपर्वताम् ।।
श्रीमद्विक्रमसंवति, रस-तु-शृङ्गारसंख्यके सहसि (१६६६) । श्रीवीरमपुरनगरे, राउलनृपतेजसीराज्ये ॥३५॥ श्रीबृहत्खरतरगच्छे, युगप्रधानसूरयः ।। जिनचन्द्रा जिनसिंहाश्च, विजयन्ते गणाधिपाः ॥३६॥ तच्छिष्यः सकलचन्द्रः, शिष्यः समयसुन्दरः । कयां कालकसुरीणां, चक्रे बालावबोधिकाम् ॥३७॥
इति कालिकाचार्यकथा समाप्ता ॥ प्रन्थानम्-४४१ ॥
[२४]
अज्ञातसूरिविरचिता कालिकाचार्यसंक्षिप्तकथा ॥
जीयात् स कालकाचार्यः, प्रभावकशिरोमणिः । पश्चमीतश्चतुर्थी यश्चक्रे पर्युषणामिमाम् ॥१॥ पुरा पुरे धरावासे, विस(शु)दासब(शय)वद्वशी । वैरिसिंहो नृपोऽस्य स्त्री, शचीव सुरसुन्दरी ॥२॥ कलानिधिः शशीवासीत् , तत्पुत्रः कालकाहयः । सरस्वतीय (च) तत्पुत्री, प्रत्यक्षेव सरस्वती ॥३॥ निवृत्तो वाहकेलीतो, योधपञ्चशतीयुतः । वने गुणाकरं मूरि, सत्याख्यं स निरक्षत ॥४॥ उपाविशद् गुरुजीवयौवनस्नेहसंपदः ।। कुशाग्रजलवल्लोला, ज्ञात्वा स्वोचितमाचर ॥५॥ तद्देशनासुधापानशान्ताज्ञानगरन्यथः । सरस्वती-भटान्वितः, कालकोऽकलयद् व्रतम् ॥६॥
For Private And Personal Use Only